Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 47
________________ मोहोन्मूलन अथवा दमयन्तीकथाप्रभृतिकर्तारो भगवन्तः पूतवचना एवातः किमस्माकमुत्सूत्रत्वादिचिन्तनेन ? परं स्थापनामात्रमेव दमयन्त्यादिभिः कृतम्, न संपूर्णः प्रतिष्ठाविधिरनुष्ठितः, संघाह्वानन (ह्वान)-वेहि(दि)- वारक - जवारकाणां तत्कालदेशयोरसम्भवात् । ___ अथ स्थापनामात्रेऽपि तैः प्रतिष्ठा कृतेति साध्यते, तदा त्वन्मतसूरिभिरपि प्रतिक्रमणवेलायां दण्डकेऽहंदादीनां स्थापना क्रियते साऽपि च प्रमाणम्, अन्यथा तदग्रतश्चैत्यवन्दनाकरणाऽयोगात् । ___ अथ ब्रूपे – सूरिणा न सा कार्येति तथा सति माता मे वन्ध्या पिता मे कुमारब्रह्मचारीत्यादिवत् स्ववचनव्याघात एव । अथोपमितिबलेन सा तेन कार्येति साध्यते, तदा तस्यां शरीरगतनगनगर-नर-नारीनिकर-नदी-निलयादि सर्वमुपमितं कल्पितं. च, यथा भगवत्यां गोशालकशते गोशालकेनानन्दसाधुमुद्दिश्यार्थिवणिग्देशान्तगमनारण्यमध्यजलान्वेषण-वनखण्डान्तवर्त्तिचतुःशिखरवल्मीकावलोकन-तच्छिखरभेद-जलसुवर्णरत्नावाप्ति-दृष्टिविषसर्पनिर्गमन-तद्वृष्टि-तद्भस्मसात्करणमित्याद्युपमितकथानकं कथितम् ।। १. कथाशरीरमेतस्या नाम्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन यतोऽस्यामुपमीयते ॥ ५५ ॥ उपमितिभवप्रपश्चायाम् भा.१, प्र.१, पृ.२ पं. २४ । २. तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वदासी - . "एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए नाणाविहविउलपणियभंडमायाए सगडी-सागडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100