Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 60
________________ वादस्थानकम् .. ____२३ .. तदा द्रव्येण कारणेन यः स्तवस्तत्र तेषामनधिकारः, तथा सति चैत्यवन्दनादेरपि भावस्तवकारणत्वात्तत्राप्यनधिकार इत्यापन्नम् । न चैतदुपपद्यते यतश्चैत्यवन्दनादेर्यतेरावश्यकेऽधिकारित्वभणनात् ।। अथ द्रव्येण गन्धपुष्पादिना स्तवो द्रव्यस्तवः, तत्रानधिकारः ? तदसत्, यतो नन्दिकाले - “ताहे लोगुत्तमाणं पाएसु वासे छुहइ" [ ] तथा - "जं च चउद्धा विणओ(भणिओ) विणओ उवयारिओ उ जो तत्थ । सो तित्थयरे नियमा न होइ दव्वथयादन्नो ॥" ।' [पञ्चा० ६/३७] जं च चउद्धा भणिओ विणओ उवयारिओ उ जो तत्थ । सो तित्थगरे णियमा ण होइ दव्वत्थयादण्णो ॥ ३७ ॥ व्याख्या - यद्यस्मात्कारणात्, चशब्द: उपपत्त्यन्तरसमुच्चयार्थः, चतुर्धा = चतुर्भिः प्रकारैनिदर्शनचारित्रोपचारलक्षणैः, भणितः = साधूनां विधेयतया वर्णितो विनयसमाध्यध्ययनादौ, विनयः = कर्मविनयनसमर्थोऽनुष्ठानविशेषः, 'तत्थ'त्ति तेषु चतुषु विनयेषु मध्ये, उपचारो = लोकव्यवहारः पूजा वा प्रयोजनमस्येत्यौपचारिको भक्तिरूपः, तुशब्दः पुनरर्थः, य इति विनयः, स इत्यसौ, तीर्थकरः = अर्हद्विषये, नियमादवश्यंभावेन, न भवति = न वर्तते, द्रव्यस्तवात् = पूजादेः, अन्योऽपरः, द्रव्यस्तव एवासाविति भावः । तस्माद् द्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम् । औपचारिकविनयस्वरूपं चेदम् - "तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरसपयाणि ॥ १ ॥ अणसायणा य भत्ती बहुमाणो तह य वण्णसंजलणा : तित्थयरादि तेरस चउग्गुणा हुंति बावन्ना ॥२॥" [प्रवचनगारोद्धार गा० ५४९-५५०] - श्रीअभय० वृत्तौ ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100