Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३६
मोहोन्मूलन
तत्र यद्यप्रमाणात् तदा खरविषाणं शशविषाणस्य साधकं स्यात् । प्रमाणाच्चेत् तत्रापि प्रत्याक्षादनुमानाद्वा ? तत्र नानुमानात्, प्रत्यक्षपूर्वकत्वात्तत्प्रवृत्तेः ।
अथ प्रत्यक्षात्तत्रापि परकीयात् स्वकीयाद्वा ? स्वकीयाद्यदि तदा तद्विषये त्वत्प्रत्यक्षस्याऽप्रवृत्तेः ।
अथ परकीयात्तत्रापि तत्कालीयजनप्रत्यक्षाद्यतनजनप्रत्यक्षाद्वा ?
न तावदद्यतनजनप्रत्यक्षात्, तत्प्रत्यक्षस्य वर्तमानार्थग्राहकत्वात् । अथ तत्कालीयजनप्रत्यक्षात्तत्रापि तद्देशवर्त्तिजनप्रत्यक्षादत्र्त्यजन्प्रत्य
क्षाद्वा ?
तत्र नात्रत्यजनप्रत्यक्षाद्, अत्रत्यैरष्टापदव्यतिकरस्य साक्षात्कर्तुमशक्यत्वात् ।
तद्देशवर्तिजनप्रत्यक्षाचेत् ?
तन्न, तच्चेतोवृत्तीनां दुर्लक्ष्यत्वाद् भवतः ।
किञ्चैतदपि स्याद्यदि तदर्थाभिधायकमागमवच उपलभ्यते, भरताम्नायिचानयोरेकमप्यस्तीति
तदालम्बनमवलम्ब्य
कैकपुरुषवाक्यश्रवणं वा स्यात् । न किमस्थान एवाऽऽत्मना क्लेशितेन ? इति ।
तथाऽत्रैवाऽऽवश्यके
“छज्जीवकायसंजमु दव्वत्थए सो विरुज्झइ कसिणो ।
तो कसिणसंजमविऊ पुप्फाइयं न इच्छंति ॥ ""
१.
-
-
व्याख्या
षड्जीवकायसंयम इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः = सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैव ततः किमित्यत आह द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स = षड्जीवकायसंयमः किं ?
विरुध्यते = न सम्यक् संपद्यते, कृत्स्नः =
संपूर्ण
·
[ आवश्यक निर्युक्तिभाष्य गा० १९३ ]
=
Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100