Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वादस्थानकम्
इत्यादिसिद्धान्तेन सर्वचार्यप्रतिष्ठितानां वन्दनीयत्वभणनात् । श्रावकप्रतिष्ठितानामागमे क्वचिदपि वन्दनीयत्वाश्रवणादिति नोभयत्राऽवन्दनीयत्वसमानतेति । . किञ्च - यथा भवद्भिरपूर्वो विधिपक्षः प्रोज्ज्वालितस्तथा पूर्वकालेऽपि भवत्सदृशैः परमधार्मिकैः सूरिभिः श्रावकैर्वोज्ज्वालितो न वा ? उज्ज्वलितश्चेत्तदा शक-विक्रमादिसंवत्सरान्वितप्रतिष्ठाकारिश्रावकनामकलितप्रशस्ता(स्त्य)क्षराणि दयन्तां, यथा द्वितीयपक्षेण श्रीभिल्लमाल - सत्यपुरादिषु तत्संवत्सरान्विताऽऽचार्यनामाक्षराणि दर्यन्ते ।
अथ श्रावकैस्तैर्याः प्रतिष्ठितास्ताः स्तोककालादेव प्रक्षीणा इति चेत् ? न, अत्रापि तत्कर्तृकत्व-स्तोककालप्रक्षयत्वसाधकं वाचकं वा प्रमाणं नास्ति, तस्मादेतदनुत्तरमेव ।
अथ दृश्यन्ते तत्र तत्र तन्नामाक्षराणि' परं ते देवकुलवासिनोऽतस्तदर्शनेऽपि तान्यक्षराणि प्रस्तुतार्थस्य प्रत्यायनाय नालं, तदाचरितस्य सर्वस्य सूत्रबाधितत्वात् । .. तन्न, यतो नहि ते सर्वेऽपि चैत्यकुलवासिनः, काशहदकालिकाचार्य - सोपारकवरस्वामिशिष्यवैरादिनामाक्षराणां दर्शनात् कथं व्याप्त्या चैत्यवासिप्रतिष्ठितत्वं तासामिति, तस्मादेतदपि फल्गुप्रायमित्यपकर्णनीयम् । ... अथ कुसुमाऽऽदान - धूपोद्गाहन - जलावगाहनादि तदधिकसावद्यस्यापि कैश्चिद्विधेयमानस्यावलोकनाद् मा भूत्तेषामस्मत्प्रतिष्ठाविधानमालोक्याऽऽत्मीयविधेः स्थैर्यमतो मूलत [ए]वासावस्माभिस्त्यज्यत इति चेत् ? न, यतो यूकाभयेन शाटकपरित्यागः क्रियमाणः सद्भिर्न प्रशल्यते । एवं हि त्वद्विधीयमानप्रव्रज्याविधानमवलोक्य तैः प्रव्रज्या विधीयते विराध्यते च, १. प्रतिष्ठाकृत्सूरिनामाक्षराणि ।
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100