Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 88
________________ वाक्यार्थविचार तत्र चोक्त एव दोषः । १५अथासीदिति पक्षः तर्हि तद् दृश्यमदृश्यं वा ? “अदृश्यं चेत्तदाऽदृश्यस्य प्रतीतिः शपथशतैरपि दुःशका श्रद्धातुम् । "दृश्यं चेत्तदा किमिति न निरादीनवस्फारविस्फारितनयनयुगलपथम[व]तरति ? किं च दृश्यमपि प्रमाणेन ग्राह्यमग्राह्यं वा ? २°अग्राह्यत्वे षष्ठभूततुल्यतैवास्य । अथ प्रमाणेन ग्राह्यं तेनापि किमध्यक्षेनानुमानेन वा ? तत्र नानुमानेन, यतो 'लिङ्गग्रहणं(ण) - सम्बन्धस्मरणपूर्वकं लिङ्गिनि ज्ञानमनुमानम्,'[ ] लिङ्गं च द्विधा, कार्य-स्वभावभेदात्, यथा हुतभुक् - शब्दयोः धूम-कृतकत्वे । न चैतयोरेकमप्यत्र विद्यतेऽतोऽनुपलब्धिरूपतृतीयहेतुगोचरत्वात् असदूपतैव तस्योक्ता स्यात् । अथ प्रत्यक्षेण, तेनापि किं स्वकीयेन परकीयेन वा ? न तावत्वरकीयेन, यतस्तेनापि किं योगिप्रत्यक्षेण इतस्प्रत्यक्षेण वा ? न तावद्योगिप्रत्यक्षेण, योगिप्रत्यक्षस्य भवतो दुर्लक्षत्वात् । यतः - “तज्ज्ञानं ज्ञेयविज्ञानशून्यैस्तल्लक्ष्यते कथम् ?" . [लोकवार्तिक १-१-२, १३४.] इतरजनप्रत्यक्षेण चेत्तदपि न, यतः कृतप्रयत्नैरस्माभिरपि न प्रतीयते, अप्रतीतमपि त्वमस्मान् हठात् प्रत्यायसीति किं राज्ञामाज्ञा ? २ स्वकीयप्रत्यक्षेणापि प्रतीयमानं व्यक्त्यात्मकं वा प्रतीयते व्यक्त्यनात्मकं वा ? ... २६तत्र न व्यक्त्यनात्मकं, व्यक्तिशून्यदेशे लडत्थित्ककायमानस्य तस्यानुपलब्धः । “व्यक्त्यात्मकत्वे व्यक्तय एव ताः न सामान्यम् । व्यक्त्यात्मकत्वेऽपि व्यक्तिनाशे तस्य नाशोऽनाशो वा ? “अनाशश्चेत् तदा व्यक्तिनाशे यदि तन्न नष्टं तदा विरुद्धधर्माध्यासस्ततो भेद एवोक्तः स्यात् नाऽभेदः । अथ तस्य नाश इति पक्षस्तथा सति स्वसिद्धान्तविरोधव्याघ्राघ्रातत्वाज्जीवितुमपि नोत्सहते, अतः किमस्माकं मतमारणेन ? नाशोऽपि तस्य तत्स्वभावस्य [अत्स्वभावस्य] वा ? "न तावदतत्स्वभावस्य हेतुशतेनापि अन्धोपलस्येव जात्यस्फटिकताया नाशस्य कृतप्रयत्नैरपि कर्तुमशक्यत्वात् । अथ तत्स्वभावस्येति पक्षः तथा सति

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100