Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
५२
त्वमपि अस्मत्पक्षपरिवर्त्तीति किं स्वगृहे विवादेन ?
एवं च सति यथा यथा सामान्यं विचार्यते तथा तथा न सत्तामपि बिभ
र्त्तीति । असत् सन्न मया युक्तिं विना श्रद्धातुं शक्यते ।
यतः
-
श्वेतपटता
"आदर्शप्रतिबिम्बितां प्रतिदिनां सर्वोऽपि योषिज्जनो,
वामां दक्ष (क्षिणतः कपोलफलके पत्रावलीं पश्यति ।
ज्ञानं सांशयिकं मनागपि न तत्किंतूक्ततत्त्वार्थया,
युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्धधे ।। [प्रमाणविनिश्वये ]
अतः सामान्याभावाद्भावाभावस्तदभावाच्च 'ता' प्रत्ययोऽत्र न युज्यत इति ।
[कर्मत्वाऽयोगचर्चा]
किञ्च भवतु वाऽयं ताप्रत्ययस्तथापि क्रियते निर्वर्त्यते विक्रियते वा मया कर्त्रेत्यर्थः स्यात् । यदि स्यात् तदा को दोष इति चेत् ? सकर्म - कक्रियाकर्तृभ्यां श्वेतपटताया: सम्बन्ध एव न घटते, यः 'श्वेतपटता' इत्यत्र ताप्रत्ययेन भावः परापरनित्यसामान्यरूपोऽभिधीयते । नित्यस्य च करणं निर्वर्त्तनरूपं विकाररूपं वा, तच्च द्वयमपि न घटते, यतो निर्वर्त्तनमसतः करणं, प्रस्तुतभावस्य विधानं शंखधवलनतुल्यमेव, न तत्र प्रेक्षावन्त आदरं कुर्वते, प्रेक्षावत्ताक्षतेः । नापि भावस्य विकाररूपं करणं, यतस्तत्ततो भिन्नमभिन्नं वा विधी - यते ? भिन्नविधाने भावस्य न किञ्चित्कृतम्, न हि देवदत्तादिहस्तविकर्त्तने यज्ञदत्तस्य किञ्चित्सम्पद्यते । अभिन्नविधाने स एव भावः करणीयः स्यात्, तत्करणे तस्याप्यनित्यत्वप्रसङ्गो ‘यत्कृतकं तदनित्यम्' [ ] इति वचनात् ।
1
1
=
=
एवं च श्वेतपटतायाः कथमपि कर्मत्वायोगात् 'दश दाडिमानि षडपूपा' [पा० व्या० १-१-१ सूत्रस्य ९ २तमवार्त्तिकस्य महाभाष्ये ] इत्यादिवाक्यवन्न काचित्पदघटनेत्यसम्बद्धवाक्यप्रतिपादने च भवतः पूर्वापर्यपर्यालोचनहानिरिति ।
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100