Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 87
________________ श्वेतपटता. कसामान्यपरिकल्पनेन ? तत्कार्यस्य स्वत एव सिद्धत्वात् । समानरूपास्वपि वर्त्तमानं किं एकमनेकं वा ? ' तत्र न तावदनेकं त्वत्सिद्धान्तक्षतिप्रसंगात् । 'नाप्येकम् एकस्य सर्वव्यक्तिव्यापकत्वाऽयोगात् । अथाकाशवत्तदेकमपि व्यापकं भविष्यति - एवं तर्हि तत् सावयवं निरयवं वा ? 'निरवयवं चेत् तदानेकासु व्यक्तिषु कथं वर्त्तते ? अथ सावयवं तदाऽभ्युगप (पग) तराद्धान्तक्षतिः । किञ्च, तत्सावयवं सद् व्यक्तिषु सामस्त्येन वर्त्तते एकदेशेन वा ? "यद्येकदेशेन तदा मातृदवरकन्यायेन तस्य वर्त्तनात् व्यक्तीनां सांशत्वाच्च यत्र व्यक्त्यंशे तल्लग्नं तत्रैव समानरूपता नान्यत्र । 'अथ सामस्त्येन तदा प्रतिव्यक्ति परिसमाप्ततया व्यक्तिवत्तस्यापि बहुत्वप्रसङ्गः । सामस्त्येनापि वर्त्तमानं नित्यमनित्यं वा ? न तावदनित्यं, नैयायिकैस्तथा ( ?स्य ) नित्यत्वेनाभ्युपगमात् । नित्यं चेत् ? तदा तदपि स्वस्वरूपप्रतीतेरजनकं जनकं वा ? अजनकं चेत् ? तदा खरविषा(ण) कल्पत्वात् ' किं तत्परिकल्पनेन ? अथ जनकं तदा नित्यस्याविचलितरूप. त्वात् सर्वदेशकालेषु स्वप्रतीतिं प्रति प्रतिपादनप्रत्यलतां प्रतिपद्येत । न चैतद् दृष्टमिष्टं वा । नित्यमपि व्यक्त्या सहोत्पत्तिधर्मकं अनुत्पत्तिधर्मकं वा ? " अनुत्पत्तिधर्मकं चेत्तदा नवीनव्यक्त्युत्पादे अनुत्पन्नं सत् कथं स्वं स्वरूपमादर्शयति ? १३ उत्पत्तिधर्मकं चेत्तदा सक्रियं निष्क्रियं वा ? सक्रियं चेत्तदा पुरातनव्यक्तेः परित्यागेन नूतनव्यक्तिनितम्बिनीमुखं चुम्बयति अपरित्यागेन वा ? तत्र न परित्यागेन, पूर्वव्यक्तेर्निः सामान्यप्रसङ्गात् । अथाऽपरित्यागेन तदा सक्रियत्वेऽपि नानेकव्यक्त्यालिङ्गन(नं) चारुविचारगौरवं सहते, निरवय [व] त्वात्तस्य । ५० उत्पत्तिधर्मकमपि नूतनव्यक्त्युत्पत्तिदेशे आसीद्वा न वा ? " नासीत्तदा नूतनव्यक्तेः कुतः समानता ? सामान्यात् इति चेत् ननु तत्र सामान्यं नास्ति । पुरातनव्यक्तेः समागत्य तत्तया सह सम्बन्धबन्धुरबन्धुभावमनुभवति इति १. खरीविषाणन्यायः असद्वस्तुसम्भावनविवक्षायामयं प्रचरतीति स्पष्टः । - भुवनेश०

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100