Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वाक्यार्थविचार युक्तेश्च तयोः केनापि कर्तुमशक्यत्वाच । अतो द्वन्द्वोऽपि द्वन्द्वभयेनेव न भवितुमुसहते ।
__ [त्रिंशदविकल्पैः सामान्यचर्चा भवतु वा कश्चिदत्र समासः, परं योऽयं 'श्वेतपटता' इत्यत्र 'ता' प्रत्ययः स 'तत्त्वौ भावे' [ ] इत्यनेन भावे भवति । भावो हि सामान्यं, तच्च किं 'व्यक्तिगतं व्यक्त्यन्तरालगतं वा ? व्यक्तिगतमपि किं 'व्यक्तिषु समानरूपासु वर्त्तते ? 'असमानरूपासु वा ? समानरूपास्वपि वर्तमानं "किमेकम्
अनेकं वा ? एकमपि "सावयवं 'निरवयव वा ? सावयवमपि किं व्यक्तिषु 'सामस्त्येन वर्तते । एकदेशेन वा ? सामस्त्येनापि वर्तमानं किं नित्यम् १२अनित्यं वा ? नित्यमपि व्यक्त्या सहोत्पत्तिधर्मकं "अनुत्पत्तिधर्मकं वा ? उत्पत्तिधर्मकमपि नूतनव्यक्त्युत्पत्तिदेशे "तदासीद्वा न वा ? तत्र वर्तमानमपि "दृश्यम् “अदृश्यं वा ? दृश्यमपि प्रमाणेन "ग्राह्य मग्राह्यं वा ? प्रमाणेनापि किं अध्यक्षेण २२अनुमानेन वा ? प्रत्यक्षेणापि किं २ स्वकीयेन "परकीयेन वा ? स्वकीयेनापि किं २५व्यक्त्यात्मकं वा प्रतीयते व्यक्त्यनात्मकं वा ? व्यक्त्यात्मकत्वे व्य-क्तिं(क्ति)नाशे तस्य नाशो “अनाशो वा ? नाशोऽपि तस्य "तत्स्वभावस्य "अतत्स्वभावस्य वा ? इति त्रिंशद् विकल्पाः ।
तत्र व्यक्तिगतं व्यक्त्यन्तरालगतं वेत्यत्र न तावद्वयक्त्यन्तरालगतम्, तदतसले तदनुपलब्धः । 'व्यक्तिगतं चेत् तदा किं तासु समानरूपासु वर्त्ततेऽसमानरूपासु वा ? 'तत्र यद्यसमानरूपासु तदा यथा वृक्षत्वं लिम्ब-कदम्बाबकाश्वत्थ-कपित्यादिषु वर्त्तते तथा डोंगरादिष्वपि वर्तेत । "समानरूपास्विति चेत् तदा समानरूपं किं तासां सामान्यसम्बन्धात् स्वत एव वा ? यदि सामान्यसम्बन्धात् तदा सा(स)मानानां भावः सामान्यं, न यावत्समानरूपता न तावत्सामान्यं न यावत्सामान्यं न तावत्समानरूपतेति व्यक्तमितरेतराश्रयदोषः। सामान्यान्तरात् इति चेत् ? तदपि सामान्यं कथं तासु वर्त्तते समानरूपासु असमानरूपासु वा ? इत्याद्यावर्तनेन चक्रकदोषः । स्वत एव चेत्तदा किमनर्थ
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100