Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 84
________________ वाक्यार्थविचार. कतमत्वाऽभावात्तप्राप्तिरेवेत्येतत्तत्पुरुषो न संगतिमङ्गत इति । [१] नापि सम्प्रदानचतुर्थीसमासो, 'यस्मै दित्सा रोचते धारयते वा तत्सम्प्रदानम्' [ ] इत्यादिलक्षणाऽयोगेन तदप्राप्तेः । [६] श्वेततात्पटः श्वेतपटः पंचमीलक्षणश्चेत् ? न, यतः श्वेताद् गुणात् पटलक्षणद्रव्यस्योत्पत्तिरित्याद्यर्थः स्यात्, न चासौ युक्तियुक्तः, “दव्वप्पभवा य गुणा न गुणप्पभवाई दव्वाई' [आवश्यकनियुक्ति गा० ७९३] इति वचनात्। [७] षष्ठीसमासवार्ता तु दुरापास्तावकाशैव । यतः सम्बन्धे सति षष्ठी भवति, सम्बन्धश्च तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा । __[सम्बन्धचर्चा तत्र न तावत्तादात्म्यलक्षणः, यतस्तदात्मनो भावस्तादात्म्यम्, तच्चेत् तदा . श्वेतगुणो वा पटो वा म्यान द्वयम् ‘यद्यतोऽव्यतिरिक्तं तत्तदेव' [ ] इति वचनात् । यथा घटाऽव्यतिरिच्यमानं रूपं घट एवेति ।। किञ्च, विरुद्धधर्माध्यासात् कारणभेदाच्च तयोर्भेद एव । तथाहि - गुणा अनुवृत्तिधर्माणो द्रव्याश्रयिणश्व, 'द्रव्याश्रया निर्गुणा गु(गु)णाः' तत्वार्थ सू० ५. ४०] इति वचनात् । द्रव्यं पुनरनुवृत्तिरूपमेव गुणाश्रयभूतञ्च इति विरुद्धधर्म १. उप्पज्जति वयंति य परिणम्मति य गुणा ण दवाई । ..दव्वप्पभवा य गुणा ण गुणप्पभवाइं दवाई ॥७९१॥ ..., किञ्च - 'दव्वप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात्, तस्माद् गुणः सामायिकमिति गाथार्थः ॥७९३।। - श्रीहरिभद्रप्रिकृतवृत्तौ ॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100