Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 83
________________ ४६ श्वेतपटता [समवायचर्चा अथ द्रव्य-गुणयोः समवायसम्बन्धादेकार्थवृत्तित्वमित्येतौ स्याताम् । तन्न, यतः समवायसम्बन्धस्तयोः सम्बन्ध(न्ध)विधत्ते किमर्थात्मा ? अनर्थात्मा वा ? तत्र यद्यर्थात्मा तदा पदार्थान्तरत्वाऽविशेषात्तस्याप्यन्यः सम्बन्धकारकश्चिन्तनीयः । 'समवायान्तरादिति चेत् ? तस्यापि तद्रूपत्वादन्यः तत्कारकश्चिन्त्य इत्येवं निरवध्यनवस्थाव्यवस्था स्थैर्यमापनीपोत । अथ अनर्थात्मा, तदा तस्यार्थक्रियाकारित्वतत्त्वं प्रत्यसमर्थत्वं, अन्यथा गगनारविन्दं सम्बन्धसिद्धिसौधमध्याध्यासनसमर्थं स्यात्, अनर्थाऽऽत्मत्वाऽविशेषात् । किञ्च, समवायो गुण-द्रव्ययोः सम्बन्धविधि विधत्ते किं तयोरतत्स्वभावयोः तत्स्वभावयोर्वा ? यद्यायः पक्षः तदाऽसम्बद्धस्वरूपयोविन्ध्य - हिमवतोरसौ घटनां प्रत्यटाटयेत । अथ तत्स्वभावयोः सम्बन्धमसावातनोतीति, तथा सति तयोः स्वतः] एव सम्बन्धसिद्धेः किमनेनाऽजागलाग्रावलम्बिस्तनयुगलकल्पेनान्तर्गडुना परिकल्पितेन ? इत्यतः समवायस्य स्वयमेव दुःस्थितावस्थानत्वान्न तद्वलेन गुणद्रव्ययोरेकार्थवृत्तित्वं तदभावाच्च कर्मधारय-बहुव्रीही भवेतामिति । [३] नापि सहार्थतृतीयासमासः, सहार्थतृतीयासमासस्य 'सह दशभिः पुत्रैः भारं वहति गर्दभी' इत्यादिवत् प्रतिषिद्धत्वात् । [४] द्वितीया-करणतृतीयासमासयोरघटनैव, द्वितीयायाः सकर्मकधात्वयोगात्, तृतीयायाश्च तन्त्वादिभिरेव पटस्योत्पत्तेः श्वेतलक्षणगुणस्य पटं प्रति साध १. अजागलस्तनन्यायः - यथा अजायाश्छाग्या गले = कण्ठे स्तनौ = स्तनाकारौ मांसविकारौ निष्प्रयोजनौ स्तः, तथा प्रकृतेऽपि । उक्तञ्च वसिष्ठसिद्धान्ते - "चलसंस्कृततिग्मांशोः संक्रमे यः सुसङ्क्रमः । अजागलस्तन इव राशिसङ्क्रान्तिरुच्यते ॥” इति । - भुवनेशलौकिकन्यायसहस्री ।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100