Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्वेतपटता
४८ . त्वम् । तथा गुणानां द्रव्यं कारणं, द्रव्यप्रभवत्वात्तेषाम्, पटादिद्रव्यस्य तु तन्तुसंयोगादयो निमित्तमिति कारणभेदश्च । अतः कथं तादात्म्यमेतयोरिति । नाप्यनयोः तदुत्पत्तिलक्षणः सम्बन्धो घटाकोटिसंटंकमाटीकते । कुतः ? यतस्तन्वादिभ्यः पटस्योत्पत्तेस्तन्त्वादिभिः सह पटस्य तदुत्पत्तिसम्बन्धो युज्यते, श्वेतगुणात् पटस्यात्रोन्मज्जनानिष्टेस्तु त्वन्मते प्रस्तुतसम्बन्धस्याप्यभावः । समवायस्तु प्रागेव निरस्त इति षष्ठीसमासाऽघटना ।।
[८] गुणानामाधाररूपत्वादत्र द्रव्यस्यैव तद्रूपत्वादितरेषां त्वाधेयत्वं द्रव्याश्रयत्वाद्गुणानां, श्वेते पट इत्याधाराधेयभावस्य वैपरीत्यापत्तेः सप्तमीसिद्धयसिद्धौ असिद्धिः सप्तमीविग्रहस्यापि । किञ्च, षष्ठीमुक्ता द्वितीयाद्याः सप्तमीपर्यन्ताः सर्वा अपि विभक्तयः क्रियामपेक्ष्य प्रवर्त्तन्ते, कारकत्वेन क्रियानिमित्तत्त्वात् "क्रियानिमित्तं कारकम्' [ ] इति वचनात, तत्सापेक्षत्वे चाऽसामर्थ्यम, समर्थपदानां च समासः, ‘समर्थः पदविधिः' [पा० व्या० ३/२/१] इतिसूत्रात् । अतोऽत्र यदा क्रियानिरपेक्षता तदा एता विभक्तय एव न सन्ति, विभक्तयश्चेत् तदा सापेक्षता, तस्यां च न समास; इत्येकं सन्धित्सतो नियमादन्यत्प्रच्यवते' इत्यतोऽप्यत्र द्वितीयायाः समासा न प्रवर्तन्ते इति । .. .
[९] अव्ययीभाव-द्विगुसमासयोस्तत्राव्यय-दिग्वाचकपदयोरसत्त्वादसत्तैव तयोः । तथा द्वन्द्वः 'श्वेतश्च पटश्च श्वेतपटौ तयोर्भाव' इत्येवं च 'श्वेतता पटता च क्रियते मया' इति पदघटना स्यात्, न चेयं तत्काले युज्यते । श्वेततायाः श्वेतगुणादेव, पटतायाःकुविन्दादिभ्य एव भावात् न त्वया ते विधातुं शक्यते । वक्ष(क्ष्य)माण१. एकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायः ।
यथैककांस्यपात्राऽवयवादि सन्धातुमिच्छतोऽपरं तदत्यन्तानलसंयोगादेः प्रच्यवते तथा 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यादिवाक्यतोऽभेदवंच:प्रामाण्यसाधने प्रवृत्तानां वैष्णवं शैवमित्यादिपुराणसंज्ञाभेदात् 'चतुर्भिर्भगवान्विष्णुर्वाभ्यां ब्रह्मा तथा रविः, अष्टादशपुराणेषु शिष्टैस्तु भगवाञ्छिवः ॥” इत्यादिप्रभासादिवचनाच- प्रकृतन्यायविषयत्वं दुर्वारमिति भेदवादिनो वदन्तीति ।
__• भुवनेश ।
Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100