Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 75
________________ ३८ मोहोन्मूलन लाटादिदेशेषु सर्वत्राऽऽचार्यप्रतिष्ठितानामेव भावात्तद्वन्दनार्थं यत्र च न लभसे तत्रापि राजाऽमात्याद्युत्कोचादानपूर्वकं किमर्थमादरं कुरुषे ? त्वदभिप्रायेण तेषां पाषाणकल्पत्वात् । ____ अथाऽऽचार्यप्रतिष्ठिता वन्द्याः, तथा सति भवानप्यस्मत्पक्षपरिवर्ती, नास्ति विवादः । अथ सामान्यप्रतिष्ठितबिम्बवन्दनमात्रवादी तदा क्षपणकप्रतिष्ठितास्ताः किमिति न वन्दसे ? अथाऽप्रतिष्ठिता वन्द्या इति पक्ष एवं च श्रावकणैव सा कार्या न साधुनेति प्रलपन्नात्मन उन्मत्ततां कथयसि ।। अथ यथा श्रावकप्रतिष्ठिताः प्रतिमा भवद्भिर्न वन्द्यन्ते तथा चैत्यवास्याचार्यप्रतिष्ठिता अपि ता न वन्द्या एवोभयत्राऽवन्दनीयत्वकारणोत्सूत्रत्वस्य समानत्वात् । न, यतो - "निस्सकडमनिस्सकडे वा वि सबहिं चेइए थुई , तिन्नि । वेलं च चेइयाइं नाउं एक्कक्किया वा वि ॥"? [वृक०भा०गा० १८०४] निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिनि । वेलं च चेइयाणि य नाउं एक्केक्किया वा वि ॥ १८०४ ॥ निश्राकृते = गच्छप्रतिबद्धे अनिश्राकृते वा = तद्विपरीते चैत्ये सर्वत्र तिस्त्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतिर्दातव्येति ॥ १८०४॥ श्रीक्षेम. वृत्तौ ।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100