Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 74
________________ वादस्थानकम् __इत्यादिवचेनन द्रव्यस्तवरूपप्रतिष्ठाकाण्डस्य यतेः सर्वथाऽपि निषेधस्तथा सति गुडलुषकांधक इव गुडं लब्धोत्तरोऽपि पुनः पुनस्तदेव याचसे तदा सुखैधितो देवानांप्रियः पिष्टं पेषयसि, शंखं धवलयसि, कृतं कारयसि, यत्त्वं भणितमपि भाणयसीति । ___ दमयन्त्यादिशास्त्रेष्वावश्यकपर्यन्तेषु श्रावककर्तृकार्हत्प्रतिष्ठाया अप्रसिढेरसिद्धता त्वदुक्तहेतोस्तदसिद्धौ च सुतरां पक्षादि निराकृतमेवति न तनिराकरणे महानादरः कृत इति । . __किञ्च दुर्बलं वादिनं दृष्ट्वाऽभ्युच्चयाः प्रवर्त्तन्ते, अतस्त्वमेव भङ्गयन्तरेण परिपृच्छ्यसे, तथाहि .- अर्हत्प्रतिमाऽवन्दनीया वन्दनीया वा ? यद्यवन्दनीया तदा ते मिथ्यादृष्टित्वप्रसङ्गः, सर्वसम्यग्दृष्टिभिस्तद्वन्दनीयत्वाऽभ्युपगमात् । ... अथ वन्दनीयास्ता अपि प्रतिष्ठिता अप्रतिष्ठिता वा ? प्रतिष्ठिता अपि श्रावकेण आचार्येण सामान्येन वा ? तत्र यदि श्रावकप्रतिष्ठिता एव तव वन्दनीयास्तर्हि श्रीमाल- मालव - मरुस्थल - मेदपाट - कर्णाट - . पुष्पादिसंलुञ्चनसचट्टनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं ततस्तस्मात् कृत्स्नसंयमविद्वांस इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थं, ते किम् ? अत आह - पुष्पादिकं = द्रव्यस्तवं नेच्छन्ति = न बहु मन्यन्ते । यच्चोक्तं - 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारंभा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेनं (त्वात्तमेव च) दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः ॥ १९३ ॥ . श्रीहरिभद्रसूरिकृतवृत्तौ - भा.२, पृ.२, पं. ६ ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100