Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 72
________________ वादस्थानकम् ३५ अथ आवश्यके - तक्षशिलायां बाहुबलि कस्थापनं, वैताढ्यै नमिवि - नमिभ्यां युगादिदेवस्य प्रतिमा प्रतिष्ठिता । तत्र त्वमेवाक्षी निमील्य चिन्तय तावत्तत्काले किं श्रावकैस्तैरश्रावकैर्वा ? तत्र न तावत् श्रावकैस्तत्समयेऽद्यापि भगवत्केवलानुत्पत्तेः, तत्केवलोत्पत्त्यनन्तरमेव भरतस्यैव तदाद्यश्रावकत्वात् । अथाऽश्रावकैस्तथा सति त्वदभिप्रायेण क्वापि शास्त्रे मिथ्यादृष्टिभिः क्व - चिच्चाबलाभिः कस्मिंश्चिच्छ्राद्धैर्देवैर्वा सा कृतेति भणनात् श्रावकेणैव प्रतिष्ठा कार्येति भवद्वचनं गर्दभीक्षीरतुल्यं सम्पन्नम् । किश्च यदि बाहुबलिना कायोत्सर्गव्यवस्थितयुगादिदेवपादन्यासस्थाने इतरजनाक्रमणासातनाभयेन तेन चकं चक्रे, नमि - विनमिभ्यां च स्वस्वामिभक्तिमुपदर्शयद्भ्यामात्मीयस्वामिनः प्रतिकृतिर्व्यवस्थापिता इत्येतावता कृतेऽपि तैर्यदि प्रतिमा प्रतिष्ठितेत्युच्यते भवता तदा घोटकपुच्छं कल्होटके योक्ष्यसि इति किं कुर्मस्तत्र वयमिति । तथा तत्रैव तत्साधकं यदुक्तं यथा वीतभयपुरे जीवन्तस्वामिन्याः प्रभावत्या सुवर्णकारदेवेन वा प्रतिष्ठा विहिता, तत्र साधूनामपि सम्भवात् " साधुना वा' इति किमिति तृतीयोऽपि ते विकल्पो न सञ्जातः ? इति । परं तथापि न ते दोषो यतः सर्पिषि रक्तस्य विरक्तस्य वा जलादिदर्शनेऽपि सर्पिर्विषय एवाभिप्रायो जायतेऽचिकित्स्यश्चायमस्माकं व्याधिरिति । किश्च यदि कूर्चशोभापुर : सरं भवताऽष्टापदे भरतेन प्रतिष्ठा कृतेत्युच्यते तदिदानीं विदितमस्माकं केवलं देशकालविप्रकृष्टार्थानां भवानेव वेत्ता । अतः परिपृछ्यसे भरतेन प्रतिष्ठः कृतेति निश्चयस्तव किं प्रमाणादप्रमाणाद्वा ? प्रमाणादपि किं प्रत्यक्षादनुमानाद्वा ? प्रत्यक्षादपि परकीयात् स्वकीयाद्वा ? • परकीयादपि किं तत्कालीयजनप्रत्यक्षादद्यतनजनप्रत्यक्षाद्वा ? तत्कालीयजनप्रत्यक्षादपि तद्देशवर्त्तिजनप्रत्यक्षादत्रत्यजनप्रत्यक्षाद्वेति विकल्पाः ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100