Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
__मोहोन्मूलन इत्यत्र ब्राह्मण-क्षत्रिय-चाण्डालादिगृहेषु न्यसनमात्र एव प्रतिष्ठाशब्दार्थः, इत्यत्रापि स एव श्रा(श्र)द्धातुं युक्तः, इति न कल्पाक्षरेष्वपि पर्यालोच्यमानेषु श्रावकप्रतिष्ठा सिध्यति ।
अथ यदुक्तम् – 'निशीथाभिप्रायेण श्रावकस्य सा' इति, तत्र प्रष्टव्यो भवान् “किं तत्र तैर्लेच्छै : प्रतिष्ठिताः ? किं वा सम्प्रतिराज्ञा स्वनगरे आचार्यहस्तात् प्रतिष्ठाप्य तत्र ताः प्रेषिताः ?' इति भवतोऽपि संदेह एव । __ अथ 'गमणं चेईहराण कारवणं' [निशीथभाष्य गा० ५७५६] इति वचनात् प्रतिष्ठापि तैरेव कृतेत्यनुमीयते - ___न, यतो न ह्येवमविनाभावो दृष्टो यथा य एव जिनभवनं कारयति ते
नैव प्रतिष्ठा कार्येति, विपर्यायास्यैव दर्शनात्; जिनभवनं विधाय सूरिहस्तात्तां. कारयन्ति ।
किञ्च - अत्र प्रतिमाः प्रतिष्ठिताः कल्याणनगरादौ व्रजन्त्यः साम्प्रतमपि दृश्यन्तेऽतः 'सम्प्रतिराज्ञाऽपि इत्थं कृतमन्यथा वा' इति तवापि संदेह एव । न च संदिग्धेन साध्यमानं सिद्धिसौधमध्यमवगाहते । 'तदसिद्धं यदसिद्धेन साध्यते' इति वचनात् ।
__ महुरानगरी, घरे कए पढमं अरिहंता पइट्ठविज्जंति, मंगलनिमित्तं, जइ न करेत्ति घरं पडति । गामअद्धेसुत्ति - देसभणिती । छन्नउइगामेसु भणितं होइ । उत्त]रावहाणं एसा भणिती ॥१७७६॥
. . विशेषचूर्णौ । मथुरानगाँ गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति। न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसङ्ख्याका ग्रामार्दास्तेष्वपि भवन्ति। इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत् .. ___ 'गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ त्ति' ॥ १७७६ ॥
- श्रीक्षेम० वृत्तौ । १. दृश्यतां पत्र ५ - टिप्पनिका २ ।
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100