SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३६ मोहोन्मूलन तत्र यद्यप्रमाणात् तदा खरविषाणं शशविषाणस्य साधकं स्यात् । प्रमाणाच्चेत् तत्रापि प्रत्याक्षादनुमानाद्वा ? तत्र नानुमानात्, प्रत्यक्षपूर्वकत्वात्तत्प्रवृत्तेः । अथ प्रत्यक्षात्तत्रापि परकीयात् स्वकीयाद्वा ? स्वकीयाद्यदि तदा तद्विषये त्वत्प्रत्यक्षस्याऽप्रवृत्तेः । अथ परकीयात्तत्रापि तत्कालीयजनप्रत्यक्षाद्यतनजनप्रत्यक्षाद्वा ? न तावदद्यतनजनप्रत्यक्षात्, तत्प्रत्यक्षस्य वर्तमानार्थग्राहकत्वात् । अथ तत्कालीयजनप्रत्यक्षात्तत्रापि तद्देशवर्त्तिजनप्रत्यक्षादत्र्त्यजन्प्रत्य क्षाद्वा ? तत्र नात्रत्यजनप्रत्यक्षाद्, अत्रत्यैरष्टापदव्यतिकरस्य साक्षात्कर्तुमशक्यत्वात् । तद्देशवर्तिजनप्रत्यक्षाचेत् ? तन्न, तच्चेतोवृत्तीनां दुर्लक्ष्यत्वाद् भवतः । किञ्चैतदपि स्याद्यदि तदर्थाभिधायकमागमवच उपलभ्यते, भरताम्नायिचानयोरेकमप्यस्तीति तदालम्बनमवलम्ब्य कैकपुरुषवाक्यश्रवणं वा स्यात् । न किमस्थान एवाऽऽत्मना क्लेशितेन ? इति । तथाऽत्रैवाऽऽवश्यके “छज्जीवकायसंजमु दव्वत्थए सो विरुज्झइ कसिणो । तो कसिणसंजमविऊ पुप्फाइयं न इच्छंति ॥ "" १. - - व्याख्या षड्जीवकायसंयम इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः = सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैव ततः किमित्यत आह द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स = षड्जीवकायसंयमः किं ? विरुध्यते = न सम्यक् संपद्यते, कृत्स्नः = संपूर्ण · [ आवश्यक निर्युक्तिभाष्य गा० १९३ ] =
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy