Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वादस्थानकम्
२९ सर्वं द्वारकदम्बकं चूर्णितो ज्ञेयं, नवरं 'परिहरणाऽणुजाणत्ति दारं, तत्थ चोयंग गाहा' -
"चोयग जिणकालम्मि किह परिहरणा जहेव अणुजाणे ।। अइगमणम्मि य पुच्छा निक्कारण कारणे लहुगा ॥ १ ॥
[. क. भा० गा० १७६८] सौवीरिणीसप्तकमभिधानीयम् । “भरिए य" त्ति तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम् । “ऊसित्ति' त्ति उत्सेचनमुत्सिक्तं-सौवीरस्योल्लिञ्चनमित्यर्थः तत्स्वरूपं च निरूपणीयम् ॥ १६५८ ॥ ___"परिहरण' त्ति नोदकः प्रश्नयिष्यति - यदि साम्प्रतं शतिकेष्वपि गच्छेष्वित्थमाधाकर्मादयो दोषा उद्भवन्ति ततः पूर्वं साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । अत्राऽऽचार्यः प्रतिवक्ष्यति - ‘अनुयानं' रथयात्रा उपलक्षणत्वात् स्नात्रादेरपि परिग्रहः, ततो यथा सम्प्रति रथयात्रादौ समवसरणे सहस्रसङ्ख्याका अपि साधवो मिलिताः सन्तः आधाकर्मादिकं परिहरन्ति तथा पूर्वमपि परिहृतवन्त इत्यनेन सम्बन्धेनानुयानविषयो विधिर्वक्तव्यः । ततः पुरःकर्मस्वरूपं निरूपयितव्यम् । ‘खलुः' वाक्यालकारे । तथैव ग्लान्यविषयो विधिः प्रतिपादनीयः । गच्छप्रतिबद्धानां यथालन्दिकानां सामाचारी दर्शनीया । ततः 'उपरि' मासकल्पावं तिष्ठतां स्थविरकल्पिकानां दोषा अभिधातव्याः । ततः 'अपवादः' द्वितीयपदमुपदर्शनीयमिति द्वारगाथाद्वयसमासार्थः १६५९ ॥
श्रीक्षेम० वृत्तौ । १. चोयग० गाहा. ॥ चोयगो भणति जति सतिएसु गच्छेसु संपयं एवं आहाकम्मादयो दोसा तो जिणकाले साहस्सयादीणं गच्छाणं कहं कहं आहाकम्मादीणं परिहरणा ? ॥ १७६८ ॥
. . चूर्णी । - इदाणिं परिहरणाणुजाणत्ति दारं 'चोयग जिणगच्छम्मि' गाहा ॥ चोयओ भणति, जइ सतिएसु गच्छेसु आहाकम्मादओ दोसा तो जिणकाले कहं आहाकम्मियाणं परिहरणा ? जिनकालस्तीर्थकरकाल इत्यर्थः ॥१७६८॥ - विशेषचूर्णी । ... नोदकः प्रश्नयति - यदि शतिकेष्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः तीर्थकरस्तस्य काले साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां
Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100