Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वादस्थानकम्
२७
स्वतः सूत्रार्थयोः सम्बन्धस्यान्यथानुपपत्तेरनिन्तपक्षेऽपि इनर्थ एव व्याख्येयः । 'अथेनन्तत्वाभावे इनर्थव्याख्यानमनर्थव्याख्यानमिव लक्ष्यत इति चेत् ? न, यतो लोकेऽपि वक्तारो मातृ-पितृ - ब्राह्मणादयो दृश्यन्ते, यथा 'अस्माभिरस्मिन् संवत्सरे मासि वा पुत्रस्य पुत्रिकाया वा विवाहः कृत ' इति । न च तैरसौ कृतस्तेषां तत्प्रयोजकत्वात्, विवाहश्च कृतो भर्त्रेति । न चायं लौकिक एव व्यवहारः, सिद्धान्तेऽप्येवंविधार्थदर्शनात् । त्रयोदशशते षष्ठोद्देशके चमरेन्द्रादिदेववृन्दक्रीडामा -
तथाहि भगवत्यां
श्रित्योक्तम्
-
-
" तत्थ उप्पापव्वयलयणे चमराईया देवा लयंति कीलंति किड्डुंति" तत्र 'लयंति' = ईप्सितक्रियाविशेषान् कुर्वन्ति, 'कीलंति' = कामक्रीडां विदधति, 'किति'त्ति = अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति । यथाऽत्रानिनन्तत्वेऽपि इनुर्थता व्याख्याता, तथा 'पट्ठाणं करेइ' इत्यत्रापि सूत्र चूर्ण्योः सम्बन्धाऽघटनात् इनर्थता व्याख्येयेति । ततश्च तद्वाक्यद्वयेऽप्यय'मर्थः सम्पन्नो यथा आचार्यस्तां करोति, तं कुर्वन्तं श्रावकः प्रयुङ्क्ते इत्यर्थ: (र्थ) परमेव तज्जातमिति ।
एतदपि कल्पग्रन्थपू (पौर्वापर्यपर्यालोचनविकलानाश्रित्योक्तम् । यदा तु तत्सूत्रं भाष्यं चूर्णिश्वावलोक्यते तदा प्रस्तुतप्रतिष्ठालेशोऽपि तत्प्रस्तावे न दृश्यते, रथानुयानाधिकार एव तस्योक्तत्वात् । एतच्च तदक्षरैरेव प्रदर्श्यते - तत्र प्रथमोद्देशके प्रलम्बसूत्रानन्तरसूत्रस्य भाष्ये सामाचारीसूचिका द्वारगाथा
यथा
“सामायारी पुणरवि तेसि इमा होइ गच्छवासीण । पडिसेहो य जिणाणं जं जुज्जइ वा तयं वोच्छं ॥
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100