Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 63
________________ मोहोन्मूलन तत्र कल्पे - "कोइ सावओ जिणपडिमाए पढमं पइट्ठाणं का(क)रेइ"। [वृ. क. भा० गा० १७९२ विशेषचूर्णी] द्वितीयचूर्णी तु “पइट्ठवणं करेइ'' [६० क० भा० गा० १७९२ चूर्णी] .... इत्यत्र साक्षादेव श्रावकभणनात् तेनैव प्रतिष्ठा कार्येति यदुक्तम् तन्न, श्रावकेणैवेत्यवधारणस्य पक्षपातं विनाऽनुपपत्तेः, यतो भवदुपन्यस्तद्वितीयचूर्ण्यभिप्रायेण यतेरपि प्रतिष्ठाकर्तृत्वेन प्रतिपादनात् । ... ननु तथाऽपि गृहस्थोऽपि तत्कारकः संजातः, नन्वेवमस्माभिरपि त्वत्पक्षस्याङ्गीकरणात् क्रियतां स्वमनोमन्दिरद्वारि अमन्दानन्दचन्दनमालालम्बनं, वाद्यतां वा गाढं वरमृदङ्गो, नरीनृत्यतां प्रगल्भतापुण्यपण्याङ्गनायाः(नया) सह, यतो देशयतेरपि देशतः प्रतिमाप्रतिष्ठायाः कल्पचूर्णिवाक्यद्वयस्य प्रामाण्याभ्युपगमेन सर्वसूरिभिरङ्गीकृतत्वात् । एतच्च त्वत्समाधानार्थमेवमुक्तम्, अन्यथा यदि सम्यग् निरूप्यते तदा 'पइट्ठवणं करेइ' इति वाक्ये यतेः प्रतिष्ठा त्वयाऽप्यङ्गीकर्तव्यैव । अन्यथेनर्थाघटनात् । तथा 'पइठ्ठाणं करेइ' इति चूर्णावपि इनर्थ एव व्याख्येयो, यतः - ___“एमेव य सन्नीण वि जिणाण पडिमासु पढमपट्ठवणे"१ कभा० गा० १७९२] इत्यस्य सूत्रस्य तर्णिवाक्यद्वयं, तऽनन्तसूत्रपदेन सहू इनन्तचूर्णिवाक्यस्य सम्बन्धः स्फुट एव । उभयत्रापीनन्तस्य भणनात् । तथा द्वितीयचूर्णिवाक्ये 'पइट्ठाणं' इत्यत्राऽनिनन्तनिर्देशान्न कापि सूत्र-चूर्योर्वाक्यघटनेति १. दृश्यतां पत्र ५ ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100