Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ मोहोन्मूलन इत्यादिवचनात् साक्षादेव गन्धादिभिर्द्रव्यस्तवोऽनुज्ञातः । प्रतिष्ठाविधा - वपि गन्धप्रक्षेप - नेत्रोन्मीलनमात्रलक्षण एव द्रव्यस्तवः सूरिभिर्विधीयते, - नाधिक इति । किञ्च यदि करणकारणानुमतिद्वारेणापि द्रव्यस्तवस्यानधिकारिणो यतयस्तत्कथं तानाश्रित्य ‘अरहंतचेइयाणं इत्यादिसूत्रं प्रवृत्तम् ? यतोऽर्हचैत्यानां वन्दनाप्रत्ययं सत्कारप्रत्ययं च कायोत्सर्गं करोमि इत्यत्र वन्दना स्तोत्रादिना; पूजनं पुष्पादिना, सत्कारश्च वस्त्रादिनेत्येवंविधार्थरूपम् । तत्र च यदि द्रव्यस्तवे केनापि प्रकारेण सांधूनां नाधिकारस्ततस्तान् प्रति निरर्थकमेवेदम्, निरर्थकं भण च साधूनां मृषावादः । अथैतद्दोषभयात्कारणानुमतिद्वारेण साधूनामपि द्रव्यस्तवोऽभ्युपगम्यते तदभ्युपगम्यताम्, सिद्धं नः समीहितम् । एवं हि करणादिभिरपि द्रव्यस्तवः सिद्ध:, “ताहे लोगुत्तमाणं पारसु बा[से] छुहइ" इत्यादिकस्य भणितत्वात् । किञ्चिद्र (ञ्चद्र) व्यरूपकरणन्यासस्य साधवोऽधिकारिणोऽनधिकारिणो वा ? तत्र यद्याद्यः कल्पस्तदा करणद्वारेणाऽपि तें तस्याधिकारिणः । अथ द्वितीयः पक्षः सोऽनुचितोऽनागमज्ञत्वसूचकत्वात् । यतो यतीनाश्रित्य चैत्यवन्दनासूत्रं प्रवृत्तम्, गौणवृत्त्या श्रावकानपीति । किञ्च यतेर्द्रव्यस्तवानधिकारित्वं यदुच्यते तदप्रतिष्ठितं बिम्बमाश्रित्य प्रतिष्ठितं वाऽऽहोस्वित्सर्वत्र ? तत्र यद्याद्यः पक्षस्तदा तत्र नास्ति निषेधोऽप्रतिष्ठितत्वात् यतः सति धर्मिणि धर्माश्चिन्त्यन्ते । अथ द्वितीयः पक्षस्तन, 'ताहे लोगुत्तमाणं' इत्यादिना साधितत्वात् । अथ सामाचारीपुस्तिकोक्तं वचनमप्रमाणं तदा तदुक्तमन्यदपि प्रव्राजन २४ - - १. आवश्यकसूत्रम् । १

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100