Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मोहोन्मूलन
२२ तत्संगतमेव । यतो यतीनामप्रधानेस्तवेऽप्रवृत्तेः । ।
अथ कारणपर्यायो द्रव्यशब्दः, यथा - ... “साहू य दब्वदेवो सुसावओ तह य दब्बसाहुत्ति"
[पञ्चा० ६/११] तैः प्रभातेऽयं तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुध्यताम् ॥१७॥ त्याज्यो वोऽयं यतो घोरसंसारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥१८॥ ते चाकलंकसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽमुत्रैव भारते ॥१९॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥२०॥ अन्यदा तान् सुरूपत्वात्कलाकौशलयोगतः । सर्वत्र ख्यातकीर्तित्वात् सर्वानाशु न्यमंत्रयत् ॥२१॥ हस्तिनागपुरे राजा कनकध्वजसंज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥ २२ ॥ तत्रायातैः स तैर्दष्टो गुरुरंगारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारुढमहाभरः ॥ २३ ॥ गलावलंबितस्थूलकुतुपोऽपेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥२४॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां. शुभभावतः ॥२५॥ देवजन्मोद्भवज्ञानज्ञातत्वात्तैरसौ स्फुटम् । करभः प्रत्यभिज्ञातो यथायं बत नो गुरुः ॥२६॥ ततस्ते चिन्तयामासुर्धिक् संसारविचेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥२७॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोऽसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥२८॥ ततस्तदैव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात्ते प्रव्रज्यां प्रपेदिरे ॥ २९ ॥ ततः सुगतिसन्तानात्रिस्यन्त्यचिरादमी । अन्यः पुनरभव्यत्वाद्भवारण्ये भ्रमिष्यति ॥३०॥ इति गाथार्थः ॥१३॥
.. - श्रीअभय० वृत्तौ । १. मिउपिंडो दवघडो सुसावगो तहय दव्वसाहु ति ।
साहू य दव्वदेवो एमाइ सुए जओ भणितं ॥ ११ ॥
व्याख्या - मृत्पिण्डो = मृत्तिकापिण्डो दव्यघटो = द्रव्यतो योग्यतया घटो द्रव्यघटः, सुश्रावकः = शोभनः श्रमणोपासकः, तथा चेति समुच्चये = द्रव्यतो योग्यतया साधुर्दैव्यसाधुः, इतिशब्द उपप्रदर्शनार्थः । साधुश्च = संयतः पुनः द्रव्यतो योग्यतया देवः सुरो द्रव्यदेवः । ‘इमाइ त्ति' इह चशब्दलोपः प्राकृतत्वात्, ततश्च एवमादि च इत्यादिप्रयोगजातमादिशब्दाद् द्रव्यनारकादिग्रहः, श्रुते = प्रवचने, यतो = यस्माद्भणितमुक्तम्, ततः प्रयोगभेदोपलम्भात् द्रव्यशब्दो योग्यतायां रूढः । इति गाथार्थः ॥११॥
• श्रीअभय. वृत्तौ ।
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100