Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मोहोन्मूलन "न्हा(ण्हा)ओ विलित्तओ चंदणि(णे)ण गंधसुगंधियदेहु ।
परिहाविओ सियदसज्जगु बहुगुणरयणहं गेहु ॥" [ ] इत्यादिका न संगतेति चेत् ? तन्न, स्नात्रादिविधानकरणद्वारेण देशप्रतिष्ठाकारश्रावकगोचरत्वात्तस्याः । ___ अथ देशप्रतिष्ठाकारः श्रावक इति श्रुत्वा अद्यापि मदीयः पक्षः प्राणिति' इति मन्यमानः परः प्राह - किं श्रावकः प्रतिष्ठां करोतीति ? ..'' ___ सूरिः- करोति, यतः तत्कारिणो बहवः । तथाहि - प्रथमं सूत्रधार-. स्तदनु श्रावकास्ततश्च श्राविका अथ सूरिस्तदनन्तरं साधुसाध्व्यश्च, तत्काले निजनिजकार्याणां सर्वैरेव करणात्, अन्यथा सङ्घाह्वानन(हान)द्वारेण तन्मीलनस्यानर्थस्य(त्व)प्रसङ्गात् ।।
तथा प्रतिष्ठाकाल एव लोकप्रत्यक्ष(क्ष)मङ्गलार्थं श्रावकहस्तात् सुवर्णमुद्रिकादिपरिधाने प्रतिष्ठानन्तरमेव तत्समक्षं तत्समl(पणे न किञ्चिदूषणं साधुदूषणम् । न चैतावत्कालग्रहणेऽपि ब्रह्मचर्यदूषण-परिग्रहौ स्याताम् । अन्यथा कारणगृहीतकाश्य - रौप्य - सौवर्णिक - लोहमयभाजन - शस्त्रादिग्रहणेऽप्युक्तदोषप्रसङ्गात् ।
। , ___ अथं यतः (तेः) स्वयमेव मङ्गलभूतत्वात् किमपरेण मङ्गलेन कार्यम् ? न, मृतसाधोः परिस्था(छा)पनकाले लोह-रक्षा-गोमयभूति-सूत्रादिभिः साधूनां भवद्भिरपि मङ्गलस्यानुष्ठीयमानत्वात् । इति न चतुर्थव्रतक्षतिः । [४]
ततश्च स्थितमेतत्तद्विधौ प्रवर्तमानस्य यतेर्भवदासञ्जितं न पञ्चमहाव्रतदूषणमिति । इत्येवं प्रतिष्ठाविधौ प्रवर्त्तमानानां निर्दोषतया नाऽस्माकं किश्चिद्रूषणम् । भवतः पुनस्तदप्रामाण्येऽपि न मम किञ्चित् क्षीयते' इति वदतः क्षीयत एव, यतो भवता शलाकादि किं नेत्रयोराहोस्विद्वदने कर्णनाशिकालकविवरे वा क्षिप्यतेऽन्यद्वा प्रतिष्ठाक्रियाकाण्डं कथं विधीयते, प्रतिष्ठा
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100