Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 56
________________ वादस्थानम् ति, साफल्यं त्वस्य महादुःकालमहाभयादिदुर्लभद्रव्यादौ । तत्कालेऽपि न देवार्थपरिभोगो, यतोऽद्यापि तदानीं तस्याऽप्रतिष्ठितत्वात् देवत्वमेव नास्ति, अन्यथा श्राविकाणामपि वारक-सुकुमारिकाग्रहणं न कल्पते, देवार्थत्वात् । इति न तृतीयपञ्चमव्रतलोपः । ३-५ ।। _ यच्च तनु-वसनशुचिता-ऽलङ्कारकरणं ब्रह्मव्रतबाधाविधाय्युक्तं तन्न सगच्छते, यतः - "आयरियगिलाणाणं मइला- मइला पुणोवि धोति । मा हु गुरूण अवन्ना इयरंमि अजीरणं जाण ॥"१ . . . [ओघनियुक्ति गा० ३५१] - इत्यादिराद्धान्तप्रामाण्यादाचार्यदेहादिशुचिता भवतामप्यभीष्टा । किञ्च - यदि प्रासुकजलस्तिमितवस्त्रखण्डेन साधुजनप्रसिद्धयतनया मलापनयनं तन्न कञ्चन दोषमावहति, यते(तो) भगवत्यां प्रतिमाप्रतिनयतिमधिकृत्योक्तम् “विसेसओ तत्थ ण्हाणुब्बट्टणाइ वज्जइ" - इत्यतो दक्षिणेन चक्षुषा पश्यति इत्युक्ते वामेन न पश्यतीत्याद्यर्थापत्तिवद्यतेर्मलापगमादिकरणं प्रतिमाकालादन्यत्र न दोषकारि । यदि च स्यात्तदा तत्कालभाविनां मलापनयनं कुर्वतो न कश्चिद्दोषः । अथ सूक्ष्मशुचितेयं साऽस्माकं संमता, महती तु - १. आयरियगिलाणाणं मइला मइला पुणोवि धोवंति । . मा हु गुरूण अवतो लोगंमि अजीरणं इयरे ॥ ३५१ ॥ सुगमा । नवरं 'अजीरणं इयरे'त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि, . यदि न प्रक्षाल्यन्ते ततोऽजीर्णं भवति ॥ ३५१ ॥ • श्रीद्रोणाचार्यकृतवृत्तौ ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100