Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्थानक
अह कहवि बिंबसिप्पी हविज्ज पासंमि तस्स ठवणाए । ता रित्याइ विमुत्तुं सेसद्धं दिज्ज तस्सावि ॥ [२]
=
रित्थं वत्थं कंसाइयं च तइया जिणेण जं लद्धं । तं तस्स होइ सक्खं (क्कं ) तेण गुरू तं न गिव्हिज्जा ॥ " [ ३ ] [ ]
अत्र च भक्ष्यमेव, तदपि वेदिकामध्यढौकितमेव गुरोराभाव्यतया प्रतिपादितम् । शेषं तु भक्ष्यव्यतिरिक्तं कनकादि वेदिकाबहिढकितभक्ष्यं च त्रिभुवनगुरोः सम्बन्धि कथितम् । एतच्च न सर्वसम्मतमित्याह 'बेंतेगे' त्ति ब्रुवते वदन्ति एके = केचन आचार्याः । अन्येषां हरिभद्रसुरेश मतं तज्जिनसत्कमेव ।
१७
-
'सेसद्धं देज्ज तस्सावित्ति अधिवासनासमये वेदिमध्यढौकितभक्ष्यस्यार्द्धं दद्यात् प्रतिमाकारिसूत्रधारस्य । अपि शब्दात् अर्द्धं गुरोः । 'जं लद्धं' ति यज्जिनेन वेदिकाबहिर्लब्धं रिक्थं भक्ष्यं च तज्जिनस्यैव । अतः कनकादिग्रहणद्वारेण यदुक्तं दूषणं तद्नुपासितगुरुकुलवासितां ते सूचयति ।
अथ वेदिकामध्यढौकितबीजपूरादि यतेः कथं कल्पत इति चेत् ? यदि न कल्पते तदा माऽसौ गृह्णातु, न ह्याभाव्यं सर्वं ग्राह्यम्,
यतः
"जं इंदखेडखित्तं राया वा जत्थ सेट्ठिणो जत्थ । तं मोतुमनखेत्ते पंचुक्कोसं जईणेवं ॥" [ 1
इत्यनेन पञ्चक्रोशमध्यगतसचित्ताचित्तं वस्त्वाभाव्यं भणितम् । तथा श्रावको वासनिक्षेपानन्तरं पुत्र - कलत्रादिकं गुरोर्निवेदयति, आभाव्यं च तत्तस्य, यत उक्तम्
Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100