Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मोहोन्मूलन. इलाजलानलानिलवनस्पत्यादिप्राणिप्रचालनप्रहाणेन प्राणातिपात: १ . सर्वसावधप्रत्याख्याने सावधप्रतिष्ठाविधिकथने च मृषावादः २।
सुवर्णशलाका - रौप्यवट्टिकाप्रथमढौकितबल्याद्यादाने तीर्थकराऽदत्तत्वाददत्ता[दानम् [३]
तद्ग्रहणे परिग्रहश्च ५। तनु-वसनसु(शुचिता-विलेपना-ऽलङ्कारकरणतश्चतुर्थव्रतक्षतिः ॥
मैवं वोचः - यतः प्रतिष्ठाकल्पे सूररेतावदेव निरवद्यं कृत्यं दृश्यते, यथा -
"तो इटुंसे पत्ते हेमसलागाए मंतविहिपुव्वं . जिणनेत्तुम्मीलणयं करेज्ज बन्ने नि(न)सं तत्था ॥ [१] अच्छी-निलाड-संधिसु हियए विय सिरिपयाइए वने ।।
रययस्स वट्टियाए गहिय महू थिरमणो सूरी ॥ [२]" इत्यादि निरवद्यमेवेति न प्रथमव्रतलोपः १।
तथा सावद्ये प्रत्याख्यातेऽपि व्याख्यानद्वारेण प्रतिष्ठादिसावद्यविधानकथनेऽपि नाऽस्माकं मृषावादो, जिनभवनादिविधानकथने तदप्रवृत्तजनप्रवर्तने च भवतामिव । ___ अथाऽस्माभिर्जिनभवनादिकरणकाले तन्न कथ्यते इति चेत् ? एवं तर्हि गीतार्थयतमानसूरिपक्षेऽप्ययं न्यायः, किं काकैर्भक्षितः ? इति न द्वितीयव्रतभङ्गः २। यच्च तृतीय-पञ्चमव्रतविलोपसाधकं कनकादिग्रहणमुक्तं, तत्रोच्यते -
“अहिवासणवेलाए जं दुक्कइ किंचि वेहि(दि)मझमि।
भक्खं तं गुरुसक्खं(क्कं) सेसं देवस्स बितेगे ॥ [१] १. न्यसन् ।
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100