Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वादस्थानकम्
१५
यदि चरितानुवादेन तदाऽन्यान्यपि चरितानि सन्ति, तद्यथा भरतेन चक्रपूजनम्, अतिमुक्तकेन जलमध्यमुक्तपतद्गक्रीडनं, सूर्याभदेवेन चैत्यवृक्षार्चनं, द्रौपद्या च पञ्चभर्त्रभ्युपगमनं कृतमतस्तान्यप्यविगानेन भवतां विधेयानि स्युरिति ।
अथ पञ्चाशक-प्रशमरत्योर्भणितत्वात् सा तेन कार्या - तत्रापि ब्रूमः -तत्कर्त्रेदंयुगीनजग (न)नयनकल्पाऽनल्पार्थचतुर्दशशतशास्त्रप्रवर्त्तकहरिभद्रसूरिवाचक्मुख्योमास्वातिपूर्वगतधरवचो भवतः प्रमाणमप्रमाणं वा ? प्रमाणं चेत् तदा तत्कृतप्रतिष्ठाकल्पयोरुक्तमेकस्मिन् यथा -
“विहिवयणं च पमाणं सुट्टुत्तं जेण ठावणा गुरुणा । कज्जा जिणबिंबाणं तं च सविसयं हवइ करणे ॥ "
“रूप्यकच्चोलकस्थेन ं शुचिना मधुसर्पिषा । नेत्रोन्मीलनं कुर्यात् सूरिः स्वर्णशलाकया ।" "
इत्याद्यपि प्रमाणमस्तु 'तदुक्तत्वाऽविशेषात् ।
अथाsप्रमाणं तदा स्थविरावलिकापठितार्यसमुद्राचार्य निशीथादिच्छेदग्रन्थस्थानस्थानसूचितपादलिप्ताचार्यादिकृतप्रतिष्ठाकल्पा अपि भवदभिप्राये
१.
णाप्रमाणतामनुवीरन्, भवदभिमताऽप्रामाण्यनिबन्धनार्हत्प्रतिमाप्रतिष्ठाकरणाधिकारिसूरिभणनस्य तत्रापि समानत्वात् ।
अथास्नुवतामप्रमाणतां प्रतिष्ठाकल्पाः, किं मम क्षीयते ?, किन्तु भवता - मेव प्रतिष्ठाकल्पोक्तविधौ प्रवर्त्तमानानां पञ्चमहाव्रताभावः ।
तथाहि
-
" रूप्यकचोल्लकस्थेन शुद्धेन मधुसर्पिषा । नयनोन्मीलनं कुर्यात् सूरिः स्वर्णशलाकया ।"
कल्याणकलिकाप्रस्तावनायाम् पृ.६, पं. १३ ।
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100