Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 58
________________ वादस्थानकम् कल्पादीनामसत्कल्पत्वात् ? • किञ्च - पञ्चाशके द्रव्यस्तवानधिकारित्वमित्यत्र द्रव्यशब्दः किमप्राधान्ये ? यथा - "अंगारमद्दगो इव दब्वायरिओ सयाऽभव्चो'' [पञ्चाशकेषु ६/१३] १. . अप्पाहण्णे वि इहं कत्थइ दिट्ठो उ दव्वसहोत्ति । अंगारमद्दगो जह दवायरिओ सयाऽभन्वो १३ ॥ व्याख्या - अप्राधान्येऽप्यप्रधानत्वेऽपि, न केवलं योग्यतायामेव । इह = प्रवचने । कचित् शब्दविषये । दृष्टस्तूपलब्ध एव । द्रव्यशब्दो = द्रव्य इति ध्वनिः । इतिशब्दो= वाक्यार्थसमाप्तौ । इहैव निदर्शनमाह-अंगारमर्दकः = प्रवचनप्रतीतः । यथेति दृष्टान्तार्थः । द्रव्याचार्यः-आचार्यत्वयोग्यताया अभावादप्रधानाचार्यः । कियन्तं कालं यावदित्याह-सदा = आजन्मापीत्यर्थः । अथवा स च स पुनः । अभव्यो = मुक्तेरयोग्यो यत इति । एतत्संविधानकं चैवं श्रूयते - सूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥१॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुंगवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥२॥ . कलभानां शतैः शूरैः शूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥३॥ ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । सूरिस्तूवाच तस्यार्थ साधूनां पृच्छताममुम् ॥४॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्रापूर्णिकः परं भव्यो नासाविति विनिश्चयः ॥५॥ यावज्जल्पत्यसौ तेषां साधूनां सूरिरग्रतः । रुद्रदेवाभिधः सूरिस्तांवत्तत्र समागतः ॥६॥ शनैश्चर इव स्फारसौम्यग्र हगणान्वितः । एरंड तरुवत्कान्तकल्पवृक्षगणान्वितः ॥७॥ 'कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोगं सगच्छस्य यथागमम् ॥८॥ ततो विकालवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अंगाराः कायिकाभुवि ॥९॥ स्वकीयाचार्यनिर्देशात्प्रच्छन्नैश्च तकैः स्थितैः । वास्तव्यसाधुभिदृष्टास्ते प्राघूर्णकसाधवः ॥१०॥ पादसंचूर्णितांगारक्रशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशंकया ॥११॥ क्रशत्काररवस्थाने कृतचिह्ना इतीक्षया । दिने निभालयिष्यामः क्रशत्कारः किमुद्भवः ॥१२।। आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । क्रशत्काररवं कुर्वन्त्रंगारपरिमर्दनात् ॥१३॥ जीवाश्रद्धानतामूढो वदंश्चैतन्जिनैः किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैर्यक्कृता अपि ॥१४॥ वास्तव्यसाधुभिदृष्टो यथादृष्टं च साधितम् । सूरेविजयसेनस्य तेनापि गदितं ततः ॥१५॥ स एष शूकरो भद्रास्त एते वरहस्तिनः । स्वप्नेन सूचिता ये वो न विधेयोऽत्र संशयः ॥१६॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100