Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 55
________________ मोहोन्मूलन "अह तिपयाहिणपुव्वं सम्मं सुद्धेण चित्तरयणेण ।। गुरुणो निवेयणं सब्बहेव दढमप्पणो एत्थ ॥' [पञ्चाशकेषु २/२९] "गुरुणो वि नाहिगरणं ममत्तरहियस्स एत्य वत्थुमि । तब्भावसुद्धिहेउं आणाए पयट्टमाणस्स ॥"२ [पञ्चाशकेषु २/३२] ... अत्र यद्यप्येतदाभाव्यं तथापि किञ्चिदेव शिष्यादि न तु महिष्यादि, अचित्तमपि वस्त्रादि न तु शा(शास्त्रादि गृह्णाति । .. किञ्च, एतद् बल्यादिग्रहणं भणनमात्रमेव, यतश्चारित्री न कोऽपि गृहणा१. व्याख्या - अथोक्तविधानादनन्तरं तिसृणां प्रदक्षिणानां समाहारस्त्रिप्रदक्षिणं, तत् पूर्व प्रथमं यत्र तत्तथा क्रियाविशेषणमिदं गुरुं त्रिःप्रदक्षिणीकृत्येत्यर्थः, सम्यक् शुद्धेन = तत्त्वतो निर्मलेन न कल्पनयेत्यर्थः, चित्तं मनस्तदेव रत्नं माणिक्यं प्रकाशस्वभावसाधाच्चित्तरत्नं, तेन गुरोः = धर्माचार्यस्य निवेदनीयं - "भवदीयोऽहं किङ्करो, यूयं मे भवोदधिनिमनस्य नाथाः" इत्येवं समर्पणं, सर्वथैव = समस्तैरपि प्रकारैर्द्विपदचतुष्पदधनार्पणलक्षणैर्मन:प्रभृतिभिर्वा न तु कथञ्चिदनिवेदनम्, दृढम् = अत्यर्थमव्यभिचारितया, कस्य निवेदनमित्याह - आत्मनः = स्वस्य, अत्र दीक्षायां दत्तायां सत्यामिति गाथार्थः ॥ २९ ॥. . . • श्रीअभयदेवरिकृतवृत्तौ । २. व्याख्या - गुरोरपि न केवलं दीक्षितस्यात्मनिवेदननिष्फलत्वलक्षणो दोषोऽभिहि तयुक्तेर्न भवति धर्माचार्यस्यापि, न = नैव, अधिक्रियते दुर्गतावनेनात्मेत्यधिकरणं, दीक्षितेनाऽऽत्मनि निवेदिते परिग्रहारम्भानुमतिरूपो दोषो भवतीति गम्यते; किंभूतस्येत्याह - ममत्त्वरहितस्य = निःसङ्गस्य, क्वेत्याह - अत्रैतस्मिन्ननन्तरोक्ते, वस्तुनि = पदार्थे दीक्षितसत्त्वतदीयापत्य- वित्तादिरूपे, पुनः किंभूतस्येत्याह - प्रवर्त्तमानस्य = व्याप्रियमाणस्य, कया ? आज्ञया = आप्तोपदेशेन, किमर्थं ?. तद्भावशुद्धिहेतुं = दीक्षितसत्त्वपरिणामविशोधनहेतोः, एवं हि प्रवृत्तौ तस्य भावशुद्धिरुपजायत इति; एवं चेहानुमानप्रयोगो यदुत - दीक्षितात्मनिवेदनं गुरोरधिकरणं न भवति, ममत्वरहितत्वात्, शरीरादिवदिति दृष्टान्तोऽभ्यूह्यः, न च ममत्वरहितत्वमसिद्धं, तदुपकारायाज्ञया प्रवृत्तंत्वाचारित्रोपकाराय भोजनादाविवेति गाथार्थः ॥ ३२ ॥ - श्रीअभयदेवरिकृतवृत्तौ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100