________________
[२]
લોગરસ–સૂત્રની સંક્ત-છાયા
लोकस्य उद्द्योतकरान्, धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ॥१॥ ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपावं, जिनं च चन्द्रप्रभं वन्दे ॥२॥ सुविधिं च पुष्पदन्तं, शीतल-श्रेयांस-वासुपूज्याञ्च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ॥३॥ कुन्थुमरं च मल्लिं, वन्दे मुनिसुव्रतं नमिजिनं च । .. वन्दे अरिष्टनेमि, पाश्र्वं तथा वर्धमानं च ॥४॥ एवं मया अभिष्ठताः, विधूतरजोमला: प्रक्षीणजरामरणाः । चतुर्विंशतिरपि जिनवराः, तीर्थकरा: मे प्रसीदन्तु ॥५॥ कीर्तितवन्दितमहिताः, ये एते लोकस्य उत्तमाः सिद्धाः । आरोग्यबोधिलाभं, समाधिवरमुत्तमं ददतु ॥६॥ चन्द्रेभ्यो निर्मलतराः, आदित्येभ्योऽधिकं प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धि मम (मह्यं) दिशन्तु ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org