________________
પરિશિષ્ટ
૧૧૧
॥ श्री कुन्थुनाथ ॥१७॥ १ वरः पुण्योऽस्ति सुखी च । २ कन्या भव्यास्ति परं कलहकृत् । ३ पुररोधः पुण्येन छुटिष्यति । ४ बद्धो मुधैव शीघ्रं छुटिष्यति । ५ धारणागतिर्मध्यमा भवेत् । ६ जये। यो )न सर्वार्थचिन्ता कार्या ।
॥ श्री अरनाथ ॥१८॥ १ जयो भविष्यति यशोऽपि भविष्यति । २ वरो मध्यगुणो भविष्यति । ३ कन्याऽसावुद्वेगकरी भवेत् । ४ पुररोधः स्तोकदिनैर्यास्यति । ५ बद्धो महाकष्टेन छुटिष्यति । ६ धारणागतिः सुन्दरा उद्वेगश्च ।
॥ श्री मल्लिनाथ ॥१९॥ १ मन्त्रौषधिभ्यो महागुणो भावी । २ गतं वस्तु सविलंम्बं स्तोकं चटिष्यति । ३ आगन्तुकः कष्टे पतितः सविलम्बमागमिष्यति । ४ सन्ताने पुत्रो भावी ।। ५ अर्थचिन्ता, सहजैवार्थप्राप्तिः ।। ६ राज्यं क्वापि नास्ति, प्राणा रक्षणीयाः ।
॥ श्री मुनिसुव्रतस्वामि ॥२०॥ १ राज्यं भव्यं परं जनभक्तिः न । २ मन्त्रविद्यौषधिभ्यो मध्यमो गुणो भविष्यति । ३ गतं गतमेव शेषं रक्षणीयम् । ४ आगन्तुकः शीघ्रं सलाभोऽस्ति । ५ संताने पुत्रो भवेन्न सुन्दरः । ६ अर्थचिन्ताऽस्ति परं न दृश्यते ।
॥ श्री नमिनाथ ॥२१॥ १ अर्थलाभो भविष्यति चिंता न [कार्या] । २ राज्यं सविलम्बं सोपक्रमं भावि । ३ मन्त्रौषधिभ्योऽनर्थो भावी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org