Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 59
________________ लाटीसंहितायांmammmmmmmmmmmmmmmmmmmmm अस्याः संसर्गवेलायामिङ्गिते नरि वैरिभिः । सापराधतया दण्डो नृपादिभ्यो भवेधुवम् ॥ २०२ ॥ केचिजना वदन्त्येवं गृहीतैषा स्वलक्षणात् । . नृपादिभिर्गृहीतत्वान्नीतिमार्गानतिक्रमात् ॥ २०३ ॥ विख्यातो नीतिमार्गोयं स्वामी स्याज्जगतां नृपः । वस्तुतो यस्य न स्वामी तस्य स्वामी महीपतिः ॥ २०४ ॥ तन्मतेषु गृहीता सा पित्राद्यैरावृतापि या । यस्याः संसर्गतो भीतिर्जायते न नृपादितः ॥ २०५ ॥ तन्मते द्विधैव स्वैरी गृहीतागृहीतभेदतः। . सामान्यवनिता या स्याद्गृहीतान्तर्भावतः ।। २०६॥ एतत्सर्वं परिज्ञाय स्वानुभूतिसमक्षतः । पराङ्गनासु नादेया बुद्धि/धनशालिभिः ॥ २०७ !! या निषिद्धास्ति शास्त्रेषु लोकेत्रातीव गर्हिता। सा श्रेयसी कुतोन्यस्त्री लोकद्वयहितैषिणाम् ।। २०८ ।। त्याज्यं वत्स परस्त्रीषु रतिं तृष्णोपशान्तये । विमृश्य चापदां चक्र लोकद्वयविध्वंसिनीम् ।। २०९ ॥ श्रूयन्ते वहवो नष्टाः परस्त्रीसङ्गलालसाः । ये दशास्यादयो नूनमिहामुत्र च दुःखिताः ।। २१० ।। श्रूयन्ते न परं तत्र दृश्यन्तेऽद्यापि केचन । रागाङ्गारेषु संदग्धाः दुःखितेभ्योपि दुःखिताः ॥ २११ ।। आस्तां यन्नरके दुःख भावतीव्रानुवेदिनाम् । जातं पराङ्गनासक्ते लोहाङ्गनादिलिङ्गनात् ॥ २१२ ॥ इहैवानर्थसन्दोहो यावानस्ति सुदुस्सहः । तावान्न शक्यते वक्तुमन्ययोषिन्मतेरितः ।। २१३ ॥ आदावुत्पद्यते चिन्ता दृष्टुं वक्तुं समीहते । ततः स्वान्तभ्रमस्तस्मादरतिर्जायते ध्रुवम् ॥ २१४ ॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162