Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 147
________________ १२२ लाटीसंहितायां तत्र हेतुवशात्कापि कुर्यात्कुर्यान्नवा कचित् । सातिचारव्रतत्वाद्वा तथापि न व्रतक्षतिः ॥ ७॥ अनावश्यं त्रिकालेपि कार्य सामायिकं जगत् । अन्यथा व्रतहानिः स्यादतीचारस्य का कथा ॥ ८ ॥ अन्यत्राप्येवमित्यादि यावदेकादशस्थितिः । व्रतान्येव विशिष्यन्ते नार्थादर्थान्तरं कचित् ॥ ९ ॥ शोभतेऽतीव संस्कारात् साक्षादाकरजो मणिः।। संस्कृतानि व्रतान्येव निर्जराहेतवस्तथा ॥ १० ॥ स्यात्प्रोषधोपवासाख्या चतुर्थी प्रतिमा शुभा। कर्तव्या निर्जराहेतुः संवरस्यापि कारणम् ॥ ११ ॥ अस्त्यत्रापि समाधानं वेदितव्यं तदुक्तवत् । सातिचारं च तत्र स्यादत्रातीचारवर्जितम् ॥ १२ ।। द्वादशव्रतमध्येपि विद्यते प्रोषधं व्रतम् । तदेवात्र समाख्यातं विशेषस्तु विवक्षितः ॥ १३ ।। अवश्यमपि कर्तव्यं चतुर्थप्रतिमावतम् । कर्मकाननकोटीनामस्ति दावानलोपमम् ॥ १४ ॥ पञ्चमी प्रतिमा चास्ति व्रतं सागारिणामिह ।। तत्सचिवपरित्यागलक्षणं भक्ष्यगोचरम् ।। १५ ।। इतःपूर्वं कदाचिद्वै सचित्तं वस्तु भक्षयेत् । इतः परं स नास्नुयात्सचित्तं तजलाद्यपि ।। १६ ।। भक्षणेऽत्र सचित्तस्य नियमो न तु स्पर्शने । तत्स्वहस्तादिना कृत्वा प्रासुकं चात्र भोजयेत् ॥ १७ ॥ रात्रिभक्तपरित्यागलक्षणा प्रतिमास्ति सा। विख्याता संख्यया षष्ठी समस्थश्रावकोचिता ॥ १८ ॥ इतःपूर्वं कदाचिद्वा पयःपानादि स्यान्निशि । इतः परं परित्यागः सर्वथा पयसोपि तत् ॥ १९ ॥

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162