Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
१३०
लाटीसंहितायां
नाना तत्रादिमा मेघी द्वितीया नाम रूपिणी । रत्नगर्भा धरित्रीव तृतीया नाम देविला ॥। ११ ॥ योषितो देविलाख्यायाः पुंसो भारूसमाह्वयात् । 'चत्वारस्तत्समाः पुत्राः समुत्पन्नाः क्रमादिह ॥ १२ ॥ तत्रादिमः सुतो दो द्वितीयः ठुकराह्वयः । तृतीयो जगसी नाम्ना तिलोकोऽभच्चतुर्थकः ॥ १३ ॥ दूदाभार्या कुलांगासी नाम्ना ख्याता उवारही । तयोः पुत्रास्त्रयः साक्षादुत्पन्नाः कुलदीपकाः ॥ १४॥ आद्यो न्योता द्वितीयस्तु भोल्हा नाम्नाथ फामनः । न्योता संघाधिनाथस्य द्वे भार्ये शुद्धवंशजे ॥ १५ ॥ आद्या नाम्ना हि पद्माही गौराही द्वितीया मता । पद्माहीयोषितस्तत्र न्योतसंघाधिनाथतः ।। १६ । पुत्रश्च देईदासः स्यादेकोपि लक्षायते । गौराहीयोषितः पुत्राश्चत्वारो मदनोपमाः ॥ १७ ॥ न्योतासंघाधिनाथस्य स्ववंशावनिचक्रिणः । तत्राद्योङ्गजो गोपा हि सामा पुत्रो द्वितीयकः ॥ १८ ॥ तृतीयो घनमल्लोस्ति ततस्तुर्यो नरायणः । भार्या देईदासस्य रामूही प्रथमा मता ॥ १९ ॥ कामही द्वितीया ज्ञेया भर्तुरच्छन्दानुगामिनी । रामूहीयोषितः पुत्रा देईदासस्य सद्मनि ॥ २० ॥ प्रथमाश्चाख्यया साधू द्वितीयो हरदासकः । ताराचन्द्रः तृतीयः स्याच्चतुर्थस्तेजपालकः ॥ २१ ॥ पञ्चमो रामचन्द्रश्च पञ्चापि पाण्डवोपमाः । साधूभार्या मथुरी च या गङ्गा शुद्धवंशजा ॥ २२ ॥
१ 'ख' पुस्तके ' देवला ' इतिपाठः ।
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162