Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
१२८
लाटीसंहितायांप्रायो दोषेऽप्यतीचार गुरौ सम्यग्निवेदिते । उद्दिष्टं तेन कर्तव्यं प्रायश्चित्तं तपः स्मृतम् ॥ ८२ ॥ गुर्वादीनां यथाप्येषामभ्युत्थानं च गौरवम् । क्रियते चात्मसामर्थ्याद्विनयाख्यं तपः स्मृतम् ॥ ८३ ॥ तपोधनानां दैवाद्वा ग्लानित्वं समुपेयुषाम् । . यथाशक्ति प्रतीकारो वैयावृत्यः स उच्यते ॥ ८४ ॥ नैरन्तर्येण यः पाठः क्रियते सूरिसन्निधौ । यद्वा सामायिकी पाठः स्वाध्यायः स स्मृतो बुधैः ॥ ८५ ॥ शरीरादिममत्वस्य त्यागो यो ज्ञानदृष्टिभिः । तपःसंज्ञः सुविख्यातो कायोत्सर्गो महर्षभिः ॥ ८६ ॥ कृत्स्नचिन्तानिरोधेन पुंसःशुद्धस्य चिन्तनम् । एकाग्रलक्षणं ध्यानं तदुक्तं परमं तपः ॥ ८७ ।। एवमित्यादिदिग्मात्रं षोढा चाभ्यन्तरं तपः । निर्दिष्टं कृपयाऽस्माभिर्देशतो व्रतधारिणाम् ॥ ८८ ।।
अक्षरमात्रपदस्वरहीनं - व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरत्र मम क्षमितव्यं
को न विमुह्यति शास्त्रसमुद्रे ॥ ८९ ॥
इति श्रीस्याद्वादानवद्यगद्यपद्यविद्याविशारद विद्वन्मणिराजमल्लविरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्रीदूदात्मजफामनमनःसरोजारविन्दविकाशनमार्तण्डमण्डलायमानायां सामायिकप्रतिमायेकादश
प्रतिमापर्यन्तवर्णनं नाम सप्तमः सर्गः ।
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162