Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
ग्रन्थकर्तुः प्रशस्तिः ।
गोपाभार्या समाख्याता अजवा शुद्धवंशजा । सामाभार्या च पूरी स्याल्लावण्यादिगुणान्विता ॥ २३ ॥ घनमल्लस्य भार्या स्याद्विख्याता हि उद्धरही । भोल्हासंघाधिनाथस्य भार्यास्तिस्रः कुलांगनाः ॥ २४ ॥ छाजाही योषितः पुत्राः पच प्रोञ्चण्डविक्रमाः । प्रथमो बालचन्द्रः स्याल्लालचन्द्रो द्वितीयकः ।। २५ ।। तृतीयो निहालचन्द्रश्चतुर्थो गणेशाह्वयः । कनिष्ठोपि गुणोत्कृष्टः पञ्चमस्तु नरायणः ॥ २६ ॥ एते पचापि पुत्राश्च जैनधर्मपरापणाः । वीधूहीयोषितः पुत्रैौ जानकीयसुतोपमौ ॥ २७ ॥ भोल्हा संघाधिनाथस्य वणिजां चक्रवर्तिनः । प्रथमकों हरदासः कृष्णराजबलोपमः || २८ ॥ द्वितीयो भावनादासः शत्रुकाष्ठदवानलः । बालचन्द्रस्य सद्भार्या करमाया स्यात्कुलांगना ॥ २९ ॥ लालचन्द्रभार्या गोमा धर्मपत्नी पतिव्रता ।
निहालचन्द्रस्य भार्ये वंश्या नाम्ना च वीरणी ।। ३० ।। गणेशाख्यास्य सद्भार्या साध्वी नाम्ना सहोदरा । कामनसंघनाथस्य भार्ये द्वे शुद्धवंशजे ॥ ३१ ॥ आद्या डूगरही ख्याता नाम्ना गंगा द्वितीयका । ड्रॅगरही भार्यायाः द्वौ पुत्रौ हि चिरजीविनौ ॥ ३२ ॥ रूडा स्यादादिमो नाम्ना माईदासो द्वितीयकः । गंगायाः योषितः पुत्रो मुख्यः कौजूसमाह्वयः ॥ ३३ ॥ रूडाभार्या च दूलाही तयोः पुत्रौ च द्वौ स्मृतौ । प्रथमो भीवसी नाम्ना रायेदासो द्वितीयकः ॥ स्ववंशगगने भूम्नि पुष्यदन्ताविवस्थितौ ॥ ३४ ॥
१ ख' पुस्तके ' प्रथमः कन्हरदासः ' इतिपाठः । दासो " इतिपाठः ।
१३१
२ ख पुस्तके " राघौ
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162