Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
सामादिकादि प्रतिमावर्णनम् ।
१२७
वाणप्रस्थाख्यकाः केचित्सर्वे तद्वेशधारिणः ॥ ७० ॥ क्षुल्लकीवक्रिया तेषां नात्युग्रं नातीव मृदुः । मध्यवर्तिव्रतं तद्वत्पश्च गुर्वात्मसाक्षिकम् ।। ७१ ।। अस्ति कश्चिद्विशेषोत्र साधकादिषु कारणात् ।। अगृहीतव्रताः कुर्युव्रताभ्यासं व्रताशयाः ॥ ७२ ॥ समभ्यस्तव्रताः केचिद् व्रतं गृह्णन्ति साहसात् । न गृह्णन्ति व्रतं केचिद् गृहे गच्छन्ति कातराः ।। ७३ ॥ . एवमित्यादि दिग्मात्रं मया प्रोक्तं गृहिवतम् । दृगायेकादशं यावत् शेषं ज्ञेयं जिनागमात् ॥ ७४॥ अस्त्युत्तरगुणं नाम्नां तपो द्वादशधा मतम् । । सूचीमात्रं प्रवक्ष्यामि देशतो व्रतधारिणाम् ॥ ७५ ॥
तत्सूत्रं यथा-अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्याग विविक्तशय्यासन कायक्लेशा बाह्यं तपः । खाद्यादिचतुद्धाहारसन्यासोऽनशनं मतम् । केवलं भक्तसलिलमवमोदर्यमुच्यते ॥ ७६ ॥ त्रिचतुःपञ्चषष्ठादिवस्तूनां संख्ययाऽशनम् । सद्मादिसंख्यया यद्वा वृत्तिसंख्या प्रचक्ष्यते ।। ७७ ।। मधुरादिरसानां यत्समस्तं व्यस्तमेव वा । परित्यागो यथाशक्ति रसत्यागः स लक्ष्यते ॥ ७८ ॥ एकान्ते विजनस्थाने सरागादिदोषोज्झिते । शय्या यद्वासनं भिन्नं शय्यासनमुदीरितम् ॥ ७९ ॥ आतापनादियोगेन वीर्यचर्यासनेन वा । वपुषः क्लेशकरणं कायक्लेशः प्रकीर्तितः ॥ ८० ॥ षोढा वाह्यं तपः प्रोक्तमेवमित्यादिलक्षणैः । अधुना लक्ष्यतेऽस्माभिःषोढा वाभ्यन्तरं तपः ॥ ८१ ॥
तत्सूत्रं यथा-प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम्।
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162