Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 148
________________ १२३ सामादिकादिप्रतिमावर्णनम् । marrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrm यद्वा विद्यते नात्र गन्धमाल्यादिलेपनम् ।। नापि रोगोपशान्त्यर्थं तैलाभ्यङ्गादि कर्मतत् ॥ २० ॥ किञ्च रात्रौ यथा भुक्तं वर्जनीयं हि सर्वदा । दिवा योषिव्रतं चापि षष्ठस्थानं परित्यजेत् ॥ २१ ॥ अस्ति तस्यापि जन्माई ब्रह्मचर्याधिवासितम् । तदर्द्धसर्वसन्याससनाथं फलवन्महत् ।। २२ ।। नहि कालकलैकापि काचित्तस्यास्ति निष्फला । मन्ये साधुः स एवास्ति कृती सोपीह बुद्धिमान् ॥ २३ ॥ सप्तमी प्रतिमा चास्ति ब्रह्मचर्याह्वया पुनः । ... यत्रात्मयोषितश्चापि त्यागो निःशल्यचेतसः ॥ २४ ।। कायेन मनसा वाचा त्रिकालं वनितारतम् । कृतानुमननं चापि कारितं तत्र वर्जयेत् ॥ २५ ॥ अस्ति हेतुबशादेष गृहस्थो मुनिरर्थतः । . ब्रह्मचर्यव्रतं यस्माद् दुर्धरं व्रतसन्ततौ ।। २६ ।। हेतुस्तत्रास्ति विख्यातः प्रत्याख्यानावृतेर्यथा । विपाकात्कर्मणः सोपि नेतुं नाहति तत्पदम् ॥ २७ ॥ उदयात्कर्मणो नान्यं कर्तुनालमयं जनः । क्षुत्पिपासादि दुःखं च सोढुं न क्षमते यतः ॥ २८ ॥ ततोऽशक्यः गृहत्यागः समन्येवात्र तिष्ठते । वैराग्यस्य परां काष्ठामधिरूढः स शुद्धधीः ॥ २९ ॥ इतः प्रभृति सर्वेपि याबदेकादशस्थितिः । इयद्वस्त्रावृताश्चापि विज्ञेया मुनिसन्निभाः ॥ ३०॥ अष्टमी प्रतिमा साद्य प्रोवाच वदतां वरः। सर्वतो देशतश्चापि यत्रारम्भस्य वर्जनम् ॥ ३१ ॥ इतः पूर्वमतीचारो विद्यते बधकर्मणः । सचित्तस्पर्शनत्वाद्वी स्वहस्तेनाम्भसां यथा ॥ ३२ ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162