Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 149
________________ १२४ लाटीसंहितायां इतः प्रभृति यद्व्यं सचित्तं सलिलादिवत् । न स्पर्शति स्वहस्तेन वह्वारम्भस्य का कथा ॥ ३३ ॥ तिष्ठेत्स्वबन्धुवर्गाणां मध्येप्यन्यतमाश्रितः । सिद्धं भक्त्यादि भुञ्जीत यथालब्धं मुनिर्यथा ॥ ३४ ॥ कापि केनावहूतस्य बन्धुनाथसधर्मिणा । तद्गहे भुञ्जमानस्य न दोषो न गुणः पुनः ॥ ३५ ।। किञ्चायं सद्मस्वामित्वे वर्तते व्रतवानपि । अवोगादशमस्थानान्नापरान्नपरायणः ॥ ३६ ।। प्रक्षालनं च वस्त्राणां प्रासुकेन जलादिना । कुर्याद्वा स्वस्य हस्ताभ्यां कारयेद्वा सधर्मिणा ।। ३७ ।। बहुप्रलपितेनालमात्मार्थं वा परात्मने । यत्रारम्भस्य लेशोस्ति न कुर्यात्तामपिक्रियाम् ॥ ३८ ॥ नवमं प्रतिमास्थानं व्रतं चास्ति गृहाश्रये । यत्र स्वर्णादिद्रव्यस्य सर्वतस्त्यजनं स्मृतम् ॥ ३९ ॥ इतः पूर्वं सुवर्णादिसंख्यामात्रापकर्षणः । इतप्रभृतिवित्तस्य मूलादुन्मूलनं व्रतम् ॥ ४० ॥ अस्त्यात्मैकशरीरार्थं वस्रवेश्मादि स्वीकृतम् । धर्मसाधनमात्रं वा शेषं निःशेषणीयताम् ।। ४१ ।। स्यात्पुरस्तादितो यावत्स्वामित्वं सद्मयोषिताम् । तत्सर्वं सर्वतस्त्याज्यं निःशल्यं जीवनावधि ।। ४२ ।। शेषो विधिस्तु सर्वोपि ज्ञातव्यः परमागमात् । सानुवृत्तं व्रतं यावत्सर्वत्रैवैष निश्चयः ॥ ४३ ॥ व्रतं दशमस्थानस्थमननुमननाह्वयम् । यत्राहारादिनिष्पत्तौ देया नानुमतिः कचित् ॥ ४४ ॥ आदेशोनुमतिश्चाज्ञा सैवं कुर्वितिलक्षणा । यद्वा स्वतः कृतेनादौ प्रशंसानुमतिः स्मृता ॥ ४५ ॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162