________________
लाटीसंहितायांmammmmmmmmmmmmmmmmmmmmm अस्याः संसर्गवेलायामिङ्गिते नरि वैरिभिः । सापराधतया दण्डो नृपादिभ्यो भवेधुवम् ॥ २०२ ॥ केचिजना वदन्त्येवं गृहीतैषा स्वलक्षणात् । . नृपादिभिर्गृहीतत्वान्नीतिमार्गानतिक्रमात् ॥ २०३ ॥ विख्यातो नीतिमार्गोयं स्वामी स्याज्जगतां नृपः । वस्तुतो यस्य न स्वामी तस्य स्वामी महीपतिः ॥ २०४ ॥ तन्मतेषु गृहीता सा पित्राद्यैरावृतापि या । यस्याः संसर्गतो भीतिर्जायते न नृपादितः ॥ २०५ ॥ तन्मते द्विधैव स्वैरी गृहीतागृहीतभेदतः। . सामान्यवनिता या स्याद्गृहीतान्तर्भावतः ।। २०६॥ एतत्सर्वं परिज्ञाय स्वानुभूतिसमक्षतः । पराङ्गनासु नादेया बुद्धि/धनशालिभिः ॥ २०७ !! या निषिद्धास्ति शास्त्रेषु लोकेत्रातीव गर्हिता। सा श्रेयसी कुतोन्यस्त्री लोकद्वयहितैषिणाम् ।। २०८ ।। त्याज्यं वत्स परस्त्रीषु रतिं तृष्णोपशान्तये । विमृश्य चापदां चक्र लोकद्वयविध्वंसिनीम् ।। २०९ ॥ श्रूयन्ते वहवो नष्टाः परस्त्रीसङ्गलालसाः । ये दशास्यादयो नूनमिहामुत्र च दुःखिताः ।। २१० ।। श्रूयन्ते न परं तत्र दृश्यन्तेऽद्यापि केचन । रागाङ्गारेषु संदग्धाः दुःखितेभ्योपि दुःखिताः ॥ २११ ।। आस्तां यन्नरके दुःख भावतीव्रानुवेदिनाम् । जातं पराङ्गनासक्ते लोहाङ्गनादिलिङ्गनात् ॥ २१२ ॥ इहैवानर्थसन्दोहो यावानस्ति सुदुस्सहः । तावान्न शक्यते वक्तुमन्ययोषिन्मतेरितः ।। २१३ ॥ आदावुत्पद्यते चिन्ता दृष्टुं वक्तुं समीहते । ततः स्वान्तभ्रमस्तस्मादरतिर्जायते ध्रुवम् ॥ २१४ ॥