SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् । ३३ मैवं यतो विशेषोस्ति युक्तिस्वानुभवागमात् । दृष्टान्तस्यापि सिद्धत्वाद्धेतोः साध्यानुकूलतः ॥९०॥ मैवं स्पर्शादि यद्वस्तु बाह्यं विषयसंज्ञिकम् । तद्धेतुस्तादृशो भावो जीवस्यैवास्ति निश्चयात् ॥ ९१ ॥ दृश्यते जलमैवैकमेकरूपं स्वरूपतः । चन्दनादिवनराजिं प्राप्य नानात्वमध्यगात् ॥ ९२ ॥ न च वाच्यमयं जीवः स्वायत्तः केवलं भवेत् । बाह्यवस्तु विनाश्रित्य जायते भावसन्ततिः ॥ ९३ ॥ ततो बाह्यनिमित्तानुरूपं कार्य प्रमाणतः । सिद्धं तत्प्रकृतेऽप्यस्मिन्नस्ति भेदो हि लीलया ॥ ९४ ॥ अत्राभिज्ञानमप्यस्ति सर्वलोकाभिसम्मतम् । दासाः दास्याः सुता ज्ञेया तत्सुतेभ्योह्यनादेशाः ॥ ९५ ॥ कृतं च बहुनोक्तेन सूक्तं सर्वविदाज्ञया । स्वीकर्तव्यं गृहस्थेन दर्शनव्रतधारिणा ॥ ९६ ॥ भोगपत्नी निषिद्धा चेत्काकथा परयोषिताम् । तथाप्यत्रोच्यते किश्चित्तत्स्वरूपाभिव्यक्तये ।। ९७ ॥ विशेषोस्ति मिथैश्चात्र परत्वैकत्वतोपि च । . गृहीताचागृहीता च तृतीया नगराङ्गना ॥ ९८ ।। गृहीतापि द्विधा तंत्र यथाद्या जीवभर्तृका। सत्सु पित्रादिवर्गेषु द्वितीया मृतभर्तृका ।। ९९ ॥ चेटिका या च विख्याता पतिस्तस्याःस एव हि । गृहीता सापि विख्याता स्यादगृहीता च तद्वत् ॥ २०० ॥ जीवत्सु बन्धुवर्गेषु रण्डा स्यान्मृतभर्तृका । मृतेषु तेषु सैव स्यादगृहीता च स्वैरिणी ॥ २०१॥ १ परिचयः । २ अन्यदृशाः । ३ प्रमाणम् । प्रकटनाय । ५ क पुस्तके " स्यादगृहीतातद्वती" इतिपाठः । ३ ला० सं०
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy