________________
३२
लाटीसंहितायां
mm
देवशास्त्रगुरून्नत्वा बन्धुवर्गात्मसाक्षिकम् । पत्नी पाणिगृहीता स्यात्तदन्या चेटिका मता ॥ १७८ ॥ तत्र पाणिगृहीता या सा द्विधा लक्षणाद्यथा । आत्मज्ञातिः परज्ञातिः कर्मभूरूढिसाधनात् ॥ १७९ ॥ परिणीतात्मज्ञातिश्च धर्मपत्नीति सैव च । धर्मकार्ये हि सध्रीची यागादौ शुभकर्मणि ॥ १८० ॥ सूनुस्तस्याः समुत्पन्नः पितुर्धर्मेधिकारवान् । सः पिता तु परोक्षः स्यादेवात्प्रत्यक्ष एव वा ॥ १८१ ॥ सः सूनुः कर्मकार्येपि गोत्ररक्षादिलक्षणे । सर्वलोकाविरुद्धत्वादधिकारी नचेतरः ॥ १८२ ।। परिणीतानात्मज्ञातियां पितृसाक्षिपूर्वकम् । भोगपत्नीति सा ज्ञेया भोगमात्रैकसाधनात् ॥ १८३ ॥ आत्मज्ञातिः परज्ञातिः सामान्य वनिता तु या । पाणिग्रहणशून्या चेच्चेटिका सुरतप्रिया ॥ ८४ ॥ चेटिका भोगपत्नी च द्वयोर्भोगाङ्गमात्रतः। लौकिकोक्तिविशेषोपि न भेदः पारमार्थिकः । भोगपत्नी निषिद्धा स्यात्सर्वतो धर्मवेदिनाम् । ग्रहणस्याविशेषेपि दोषो भेदस्य सम्भवात् ॥ ८६ ॥ अस्ति दोषविशेषोऽत्र जिनदृष्टश्च कश्चन । येन दास्याः प्रसङ्गेन वज्रलेपोघसंचयः ॥ १८७ ॥ भावेषु यदि शुद्धत्वं हेतुः पुण्यार्जनादिषु । एवं वस्तुस्वभावत्वात्तद्रतात्ताद्ध नश्यति ॥ १८८ ॥
उक्तं च। मुनिरेव हि जानाति द्रव्यसंयोगजं गुणम् । मक्षिका वमनं कुर्यात्तद्विद् छर्दिप्रणाशिनी ॥ ११ ॥ ननु यथा धर्मपत्न्यां यैव दास्यां क्रियैव सा। विशेषानुपलब्धेश्च कथं भेदोवधार्यते ॥ १८९ ॥