________________
मूलगुणाष्टक प्रतिपालसप्तव्यसननिरोधवर्णनम् ।
तत्स्वरूपं प्रवक्ष्यामः पुरस्तादल्पविस्तरात् । उच्यतेत्रापि दिग्मात्रं सोपतोगि प्रसङ्गसात् ॥ १६६ ॥ उक्तः प्राणिबधो हिंसा स्यादधर्मः स दुःखदः । या नार्थाज्जीवस्य नाशोस्ति किन्तु बन्धोत्र पीडा ।। १६७ ।। ततोऽवश्यं हि पापः स्यात्परस्वहरणे नृणाम् । यादृशं मरणे दुःखं तादृशं द्रविणक्षतौ ॥ १६८ ॥ एवमेतत्परिज्ञाय दर्शन श्रावकोत्तमैः । कर्तव्या न मतिः कापि परदारधनादिषु ॥ १६९ ॥ आस्तां परस्वस्वीकाराद्यद् दुःखं नारकादिषु । यदत्रैव भवेद् दुःखं तद्वक्तुं कः क्षमो नरः ॥ १७० ॥ चौर्यासक्तो नरोवश्यं नासिकादिक्षतिं लभेत् । गर्दभारोपणं चापि यद्वा पञ्चत्वमाप्नुयात् ॥ १७१ ॥ उद्विग्नो विघ्नशंकी च भ्रान्तोनवस्थचित्तकः । न क्षणं तिष्ठते स्वस्थः परवित्तहरो नरः ॥ १७२ ॥ परस्वहरणासक्तैः प्राप्ता दुःख परंपराः । श्रूयते तत्कथा शास्त्राच्छिवभूतिर्द्विजो यथा ॥ १७३ ॥ न केवलं हि श्रूयन्ते दृश्यन्तेऽत्र समक्षतः । यतोद्यापि चुरासक्तो निग्रहं लभ्भाते नृपात् ॥ १७४ ॥ सन्ति तत्राप्यतीचाराचौर्यत्यागव्रतस्य च ।
तानवश्यं यथास्थाने बूमो नात | वविस्तरात् ॥ १७५ ॥ अथान्ययोषिद्व्यसनं दूरतः परिवर्जयेत् । आशीर्विषमिवासां यच्चरित्रं स्याज्जगत्त्रये ॥ १७६ ॥ तुर्याणुव्रते तस्यान्तर्भावः स्यादस्य लक्षणात् । लक्ष्यतेत्रापि दिग्मात्रं प्रसङ्गादिह साम्प्रतम् ॥ १७७ ॥
१ स्त्रीणाम् ।
३१