SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां mm एवमित्यादिस्थानेषु विनाकार्य न जातुचित् । कौतुकादिविनोदार्थं न गच्छेन्मृगयोज्झितः ॥ १५३ ॥ तस्करादिविघातार्थं स्थानेषु चण्डभीरुषु । योध्दुमुत्सुकभूपादियोग्यासु युद्धभूमिषु ॥ १५४ ।। गीतनादविवाहादिनाट्यशालादिवेश्मषु । हिंसारम्भेषु कूपादिखननेषु च कर्मसु ॥ १५५ ।। न कर्तव्या मतिर्धारै स्वप्नमात्रे मनागपि । केवलं कर्मबन्धाय मोहस्यैतद्धि स्फूर्जितम् ॥ १५६ ॥ गच्छन्नप्यात्मकार्यार्थ गच्छेद् भूमिं विलोकयन् । युगदम्नां दृशा सम्यगीर्यासंशुद्धिहेतवे ॥ १५७ ॥ तत्र गच्छन्न छिन्द्वेद्वा तरुपर्णफलादिकान् । पद्भ्यां दोभ्यां न कुर्वीत जलस्फालनकर्म च ॥ १५८ ॥ शर्करादिपरिक्षेपं प्रस्तरैभूमिकुदृनम् । इतस्ततोऽटनं चापि क्रीडाकूर्दनकर्म च ॥ १५९ ॥ हिंसोपदेशमित्यादि न कुर्वीत विचक्षणः । प्राक्पदव्यामिवारूढः सर्वतोनर्थदण्डमुक् ॥ १६० ॥ व्याख्यातो मृगयादोषः सर्वज्ञाज्ञानतिक्रमात् । अर्गलेवाऽव्रतादीनां व्रतादीनां सहोदरः ।। १६१ ॥ अथ चौर्यव्यसनस्य त्यागः श्रेयानिति स्मृतः । तृतीयाणुव्रतस्यान्तर्भावी चाप्यत्र सूत्रितः ॥ १६२ ॥ तल्लक्षणं यथा सूत्रे निर्दिष्टं पूर्वसूरिभिः । यद्यददत्तादानं तत्स्तेयं स्तेयविवर्जितैः ॥ १६३ ॥ व्यसनं स्यात्तत्रासक्तिः प्रवृत्तिर्वा मुहुर्मुहुः । यद्वा ब्रतादिना क्षुद्रैः परित्यक्तुमशक्यता ॥ १६४ ॥ सदेतव्यसनं नूनं निषिद्धं गृहमेधिनाम् । संसारदुःखभीरूणामशरीरसुखैषिणाम् ।। १६५ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy