SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् । २९. ननु चानर्थदण्डोस्ति भोगादन्यत्र याः क्रियाः । आत्मानन्दाय यत्कर्म तत्कथं स्यात्तथांविधम् ॥ १४१ ॥ यथा सकृचंदनं योषिद्वस्त्राभरणभोजनम् । सुखार्थं सर्वमेवैतत्तथाखेटक्रियापि च ॥ १४२ ॥ मैवं तीव्रानुभागस्य बन्धः प्रमाद्गौरवात् । प्रमादस्य निवृत्यर्थं स्मृतं व्रतकदम्बकम् ॥ १४३॥ सृक्चंदनवनितादौ क्रियायां वा सुखाप्तये । भोगभावो सुखं तत्र हिंसा स्यादानुषङ्गिकी ॥ १४४ ॥ आखेटके तु हिंसायाः भावः स्याद्भूरिजन्मिनः । पश्चाद्दैवानुयोगेन भोगः स्याद्वा नवा क्वचित् ॥ १४५ ॥ हिंसानन्देन तेनोच्चैरौद्रध्यानेन प्राणिनाम् । नारकस्यायुषो बन्धः स्यान्निर्दिष्टो जिनागमे ॥ १४६ ॥ ततोवश्यं हि हिंसायां भावश्चानर्थदण्डकः । त्याज्यः प्रागेव सर्वेभ्यः संक्लेशेभ्यः प्रयत्नतः ।। १४७ ।। तत्रावान्तररूपस्य मृगयाभ्यासकर्मणः । · त्यागः श्रेयानवश्यं स्यादन्यथाऽसातबन्धनम् ॥ १४८ ॥ अतीचारास्तु तत्रापि सन्ति पापानुयायिनः । यानपास्य व्रतिकोपि निर्मली भवति ध्रुवम् ॥ १४९ ॥ कार्यं विनापि क्रीडार्थं कौतुकार्थमथापि च । कर्तव्यमटनं नैव वापीकूपादिवर्त्मसु ॥ १५० ॥ पुष्पादिवाटिका सूचैर्वनेषूपवनेषु च । सरित्तडागक्रीडाद्रिसरः शून्यगृहादिषु ॥ १५१ ॥ शस्याधिष्ठानक्षेत्रेषु गोष्ठीनेष्वन्यवेश्मसु । कारागारगृहेषूच्चैर्मठेषु नृपवेश्मसु ॥ १५२ ॥ १ अनर्थदण्डाख्यम् । २ प्रसङ्गोद्भवा । ३ प्रचुर संसारिणः । ४ क ख पुस्तकयोः <i 'नारकस्यभ्युजोबन्धः " इतिपाठः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy