SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां - उक्तं च । . या खादन्ति पलं पिबन्ति च सुरां जल्पन्ति मिथ्यावचः । स्निह्यन्ति द्रविणार्थमेव विदधत्यर्थप्रतिष्ठाक्षतिम् । नीचानामपि दूरवक्रमनसः पापात्मिका कुर्वते । लालापानमहर्निशं न नरकं वेश्यां विहायाऽपरम् ॥ ९॥ रजकशिलासदृशीभिः कुक्कुरकर्परसमानचरिताभिः । वेश्याभिदिसङ्गः कृतमिव परलोकवार्ताभिः ॥ १० ॥ प्रसिद्धं बहुभिस्तस्यां प्राप्ता दुःखपरंपराः । श्रेष्ठिना चारुदत्तेन विख्यातेन यथा पराः ॥ १३२ ॥ यावान् पापभरो यादृग्दारिका दरिकर्मणः । कविनापि न वा तावान् कापि वक्तुं च शक्यते ॥ १३३ ॥ आस्तां च तद्रतादत्र चित्रकादिरुजो नृणाम् । नारकादिगतिभ्रान्तेर्यद् दुःखं जन्मजन्मनि ॥ १३४ ॥ न वाच्यमेकमेवैतत्तावन्मात्राल्पदोषतः । द्यूतादिव्यसनासक्तः कारणं धर्मध्वंसकृत् ।। १३५ ।। सुगमत्वाद्धि विस्तारप्रयासो न कृतो मया । दोषः सर्वप्रसिद्धोत्र वावंदूकतया कृतम् ॥ १३६ ।। सन्ति तत्राप्यतीचाराश्चतुर्थव्रतवर्तिनः । निर्देक्ष्यामो वयं तांस्तान तत्तत्रावसरे यथा ॥ १३७ ॥ ख्यातः पण्याङ्गनात्यागः संक्षेपादक्षप्रत्ययात् । आखेटकपरित्यागः साधीयानिति शस्यते ॥ १३८ ॥ अन्तर्भावोस्ति तस्यापि गुणाणुव्रतसंज्ञके । अनर्थदण्डत्यागाख्ये बाह्यानर्थक्रियादिवत् ॥ १३९ ॥ तत्तत्रवसरेऽवश्यं वक्ष्यामो नातिविस्तरात् । प्रसङ्गाद्वा तदत्रापि दिग्मात्रं वक्तुमर्हति ॥ १४० ।। १ अतिवक्तृतया । २ अतिशयेन साधुः प्रसिद्धृत्वात् ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy