________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
www.nawrrrrrrrrrrrrr
ततः क्षुत्तृड्विनाशः स्याद्वपुःकार्यं ततो भवेत् । ततः स्यादुद्यमाभावस्ततः स्याद्रविणक्षतिः ॥ २१५ ॥ उपहास्यं च लोकेस्मिन् ततःशिष्टेष्वमान्यता । इंगिते' राजदण्डः स्यात्सर्वस्वहरणात्मकः ॥ २१६ ॥ भवेद्वा मरणं मोहादन्यस्त्रीलीनचेतसः । चित्रं किमत्र रोगाणामुद्भवोपि भवेद् ध्रुवम् ।। २१७ ॥ यद्वाऽमुत्रेह यदुःखं यावद्यादृक् च दुःस्सहम् । अन्यस्त्रीव्यसनासक्तः सर्वं प्राप्नोति निश्चितम् ॥ २१८ ॥ अस्मदीयमतं चैतदोषवित्तद्धि मुश्चति । न मुश्चति तथा मन्दो ज्ञातदोषोपि मूढधीः ।। २१९ ॥ इतिश्री स्याद्वादानवद्यगद्यपद्यविद्याविशारदविद्वन्माणेराजमल्ल विरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्री दूदात्मज फामनमनःसरोजारविन्दविकाशनकमार्तण्ड मण्डलायमानायां दर्शनप्रतिमा महाधिकारमध्ये मूलगुणाष्टकप्रतिपाल सप्तव्यसनरोधवर्णनो
नाम द्वितीयः सर्गः।
अथ तृतीयः सर्गः। दूदाङ्गजः फामननामधेयः
स्ववंशवेश्मज्वलदच्छदीपः । जीयाजिनेशांहिसरोरुहालिरस्यां कथायां रसिकावतंसः ॥ १ ॥
इत्याशीर्वादः। सम्यक्त्वं दुर्लभं लोके सम्यक्त्वं मोक्षसाधनम् । ज्ञानचारित्रयोर्बीजं मूलं धर्मतरोरिव ॥१॥
१ ज्ञाते सति । १ मुकुटः ।