SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३६ लाटीसंहितायां तदेव सत्पुरुषार्थस्तदेव परमं पदम् । तदेव परमं ज्योतिः तदेव परमं तपः ॥२॥ तदेवेष्टार्थसंसिद्धिस्तदेवास्ति मनोरथः । अक्षातीतं सुखं तत्स्यात्तत्कल्याणपरंपरा ॥३॥ विना येनात्र संसारे भ्रमतिस्म शरीरभाक् । भ्रमिष्यति तथानन्तं कालं भ्रमति संप्रति ॥ ४ ॥ अपि येन विना ज्ञानमज्ञानं स्यात्तदज्ञवत् । चारित्रं स्यात्कुचारित्रं तपो बालतपः स्मृतम् ॥ ५ ॥ अत्रातिविस्तरेणालं कर्म यावच्छभात्मकम् । सर्वं तत्पुरतः सम्यक् सर्वं मिथ्या तदत्ययात् ॥ ६ ॥ तञ्च तत्त्वार्थश्रद्धानं सूत्रे सम्यक्त्वलक्षणे । प्रामाणिकं तदेव स्याच्छूतकेवलिभिर्मतम् ॥ ७ ॥ तत्त्वं जीवास्तिकायाद्यास्तत्स्वरूपोर्थसंज्ञकः । श्रद्धानं चानुभूतिः स्यात्तेषामेवेति निश्चयात् ॥ ८ ॥ सामान्यादेकमेवैतत्तद्विशेषविधेर्द्विधा । परोपचारसापेक्षाद्धेतोद्वैतवलादपि ॥ ९ ॥ तद्विशेषविधिस्तावन्निश्चयाव्यवहारतः । सम्यक्त्वं स्याद्विधा तत्र निश्चयश्चैकधा यथा ॥ १० ॥ शुद्धस्यानुभवः साक्षाजीवस्योपाधिवर्जितः । सम्यक्त्वं निश्चयान्नूनमर्थादेकविधं हि तत् ॥ ११ ॥ उक्तं च। दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥ १ ॥ व्यवहाराच्च सम्यक्त्वं ज्ञातव्यं लक्षणाद्यथा । जीवादि सप्ततत्त्वानां श्रद्धानं गाढमव्ययम् ॥ १२ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy