Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 108
________________ प्रथमाणुव्रतवर्णनम् । एवमग्निजलादीनां भेदाश्चत्वार एव ते । प्रत्येकं चापि ज्ञातव्याः सर्वज्ञाज्ञानतिक्रमात् ॥ ७२ ॥ सूक्ष्मकर्मोदयाजाताः सूक्ष्मा जीवा इतीरिताः । सन्त्यघातिशरीरास्ते वञानलजलादिभिः ।। ७३ ॥.... उक्तं च। णहि जेसिं पडिखलणं पुढवीताराहि अग्गिवाराहिं । ते हुंति सुहमकाया इयरे पुण थूलकाया य ॥२॥ स्थूलकर्मोदयाजाताः स्थूला जीवाः स्वलक्षणात् । सन्ति घातिशरीरास्ते वज्रानलजलादिभिः ॥ ७४ ॥ उक्तं च । --- घादिसरीरा थूला अघादिसरीरा हवे सुहमा । किश्च स्थूलशरीरास्ते कचिच्च क्वचिदाश्रिताः । सूक्ष्मकायास्तु सर्वत्र त्रैलोक्ये घृतवद्घटे ॥ ७५ ॥ उक्तं च । आधारधरा पढमा सव्वत्थ णिरंतरा सुहमा । प्रत्येकं ते द्विधा प्रोक्ताः केवलज्ञानलोचनैः । पर्याप्तकाश्चापर्याप्तास्तेषां लक्षणमुच्यते ।। ७६ ॥ पर्याप्तको यथा कश्चिदैवाद्गत्यन्तराच्च्युतः । अन्यतमां गतिं प्राप्य गृहीतुं वपुरुत्सुकः ।। ७७ ॥ उदयात्पर्याप्तकस्य कर्मणो हेतुमुत्तरात् । सम्पूर्ण वपुरादत्ते निष्प्रत्यूहतयासुमान ।। ७८ ॥ अपर्याप्तकजीवस्तु नाश्नुते वपुःपूर्णताम् । अपर्याप्तकसंज्ञस्य तद्विपक्षस्य पाकतः ॥ ७९ ॥ अष्टादशैकभागेस्मिन् श्वासस्यैकस्य मात्रया। आयुरस्य जघन्यं स्यादुत्कृष्टं तावदेव हि ॥ ८०॥ १ पुढवी पुढवीकाओ पुढवीकाइयय पुढविजीवो य । साहारणोपमुक्को सरीरगहिदो भवंतारदो ॥

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162