Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 127
________________ १०२ लाटीसंहितायां अनासत्यपरित्यागवतेऽतीचारपञ्चकम् । प्रामाणिक प्रसिद्धं स्यात्सूत्रेप्युक्तं महर्षिभिः ॥ १७ ।। तत्सूत्रं यथा-मिथ्योपदेशरहोभ्याख्यान कूटलेखक्रियान्यासाफहारसाकारमन्त्रभेदाः । . तत्र मिथ्योपदेशाख्यः परेषां प्रेरणं यथा । अहमेवं न वक्ष्यामि वद त्वं मम मन्मनात् ॥ १८ ॥ रहोभ्याख्यानमेकान्ते गुह्यवार्ताप्रकाशनम् । परेषां शङ्ख्या किञ्चिद्धेतोरस्त्यत्र कारणम् ।। १९ ।। कूटलेखक्रिया सा स्याद्वंचनार्थं लिपिम॒षा । सा न साक्षात्तथा तस्या मृषानाचारसम्भात् ॥ २० ॥ किन्तु स्वल्पा यथा कश्चित्किञ्चित्प्रत्यूहनिस्पृहः । इदं मदीयपत्रेषु मदर्थ न लिपीकृतम् ॥ २१ ॥ न्यासस्याप्यपहारो यो न्यासापहार उच्यते । सोपि परस्य सर्वस्वहरो नैव स्वलक्षणात् ॥ २२ ।। किञ्च कश्चिद्यथा सार्थः कस्यचिद्धनिनो गृहे । स्थापयित्वाधनादीनि स्वयं स्थानान्तरं गतः ॥ २३ ॥ वदत्येवं स लोकानां पुरस्तादिह निन्हवात् । धृतं न मे गृहे किश्चित्तेनाऽमाऽर्थेन गच्छता ॥ २४ ॥ उक्तो न्यासापहारः स प्रसिद्धोऽनर्थसूचकः । मृषात्यागव्रतस्योच्चैः दोषः स्यात्सर्वतोमहान् ।। २५ ॥ साकारमन्त्रभेदोपि दोषोतीचारसंज्ञकः । न वक्तव्यः कदाचिद्वै नैष्ठिकैः श्रावकोत्तमैः ।। २६ ॥ दुर्लक्ष्यमर्थं गुह्यं यत्परेषां मनसि स्थितम् । कथंचिदिङ्गितर्ज्ञात्वा न प्रकाश्यं व्रतार्थिभिः ॥ २७ ॥ ननु चैवं मदीयोऽयं ग्रामो देशोऽथवा नरः । इत्येवं यजगत्सर्वं वदत्येतन्मृषा बचः ॥ २८ ॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162