Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
लाटीसंहितायां
mmmmmmmmmmw
vvvvvvvvvvvvvvvvvvvvvvv
नराणां गोमहिष्यादितिरश्चां वा प्रमादतः । तृणाद्यन्नादिपातानां निरोधो व्रतदोषकृत् ॥ २७१ ॥ बहुप्रलपितेनालं ज्ञेयं तात्पर्यमात्रतः । सा क्रिया नैव कर्तव्या यथा त्रसबधो भवेत् ॥ २७२ ॥ इत्युक्तमात्रदिग्मानं सागाराहमणुव्रतम् । त्रसहिंसापरित्यागलक्षणं विश्वसाक्षिभिः ।। २७३ ॥ इति श्रीस्याद्वादानवद्यगद्यपद्यविद्याविशारद विद्वन्मणिराजमल्ल विरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्री
दूदात्मज फामन मनःसरोजारविन्दविकाशनकमार्तण्डमण्डलायमानायां त्रसहिंसापरित्याग प्रथमाणुव्रत वर्णनो नाम पञ्चमः सर्गः ।
अथ षष्ठः सर्गः। त्रसहिंसापरित्यागलक्षणं यदणुव्रतम् । साधुदूदाङ्गजोदामफामनाख्यं पुनातु तत् ।। १ ।।
इत्याशीर्वादः । अथमृषापरित्यागलक्षणं व्रतमुच्यते । सर्वतस्तन्मुनीनां स्यादेशतो वेश्मवासिनाम् ॥१॥ ग्राह्या तत्रानुवृत्तिः सा प्राग्वदत्रापि धीधनैः । प्रोक्तमसदभिधानमनृतं सूत्रकारकैः ॥ २॥ असदिति हिंसाकरमभिधानं स्याद्भाषणम् । शब्दानामनेकार्थत्वाद्गतिश्चानुसारिणी ।। ३ ॥ नात्रासदिति शब्देन मृषामात्रं समस्यते । साकारमन्त्रभेदादौ सूनृतत्वानुषङ्गतः ॥ ४ ॥ देशतो विरतिस्तत्र सूत्रमित्यनुवर्तते । त्रसबाधाकरं तस्माद्वचो वाच्यं न धीमता ॥ ५॥
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162